
មេរៀនទី១
प्रथमः पाठः - अजः गजः
ខ្ញុំកំពុងរៀបចំបកប្រែគ្រប់មេរៀនទាំងអស់ សម្រាប់ថ្នាក់ឆ្នាំទី១ ២ ៣ មធ្យមសិក្សាបឋមភូមិ (ថ្នាក់ទី៧ ៨ ៩)
अजः
अयम् अजः।
गजः
अयं गजः।
बाला
इयं बाला।
माला
इयं माला।
पात्रम्
इदं पात्रम्।
नेत्रम्
इदं नेत्रम्।
क) प्रश्नाः-
१. अयं कः ? २. इयं का ? ३. इदं किम् ?
ख) ‘इदम्’ (This) शब्दस्य लिङ्गत्रयेऽपि प्रथमाविभक्ति रूपाणि—
लिङ्ग एकवचनम् द्विवचनम् बहुवचनम्
पुंलिङ्गे अयम् इमौ इमे
स्त्रीलिङ्गे इयम् इमे इमाः
नपुंसकलिङ्गे इदम् इमे इमानि
ग) ‘इदम्' शब्दस्य रूपैः वाक्यानि पूरयत—
१. अश्वः । २. जिह्वा । ३. मुखम्।
४. विश्वम्। ५. नासा । ६. नरः।
घ) अक्षरं लिखत
क् + आ=? त् + आ = ? क् + इम् = ?
शब्दार्थकोशः
अयम् m. इयम् f. इदम् n. this कः m. का f. किम् n. what
अज: m. goat
गज: m. elephant
बाला f. girl
माला f. garland
पात्रम् n. pot
नेत्रम् n. eye
अश्वः m. horse
नरः m. man
जिह्वा f. tongue
नासा f. nose
विश्वम् n. universe
आदिसंकेतः
N. Noun विशेष्यम्
a. Adjective विशेषणम् (can be used in all the 3 genders )
m. Masculine पुंलिङ्गम्
f. Feminine स्त्रीलिङ्गम् नपुंसकलिङ्गम्
n. Neuter
pron. Pronoun सर्वनाम
P. परस्मैपदी
A. आत्मनेपदी
U. उभयपदी
Pr. P. Present Participle
P. P. Past Participle
មេរៀនទី២
द्वितीयः पाठः - वृक्षः लता पुष्पम्
वृक्षः
अयं वृक्षः । स गजः गजो गच्छति ।
अजः तिष्ठति । वृक्षः फलति।
रामः पठति ॥
लता
इयं लता । सा बाला ।
बाला तिष्ठति । माला म्लायति ।
लता पुष्यति । सीता वदति ॥
पुष्पम्
इदं पुष्पम् । तत् पात्रम् ।
पात्रं पतति । नेत्रं स्फुरति ।
पुष्पं विकसति । मुखं लसति ॥
क) प्रश्नाः-
१. स कः ? २. को गच्छति ? ३. सा का ? ५. तत् किम् ? ४. का तिष्ठति ? ६. किं पतति ?
ख) 'तद्' (That) शब्दस्य लिङ्गत्रयेऽपि प्रथमाविभक्ति रूपाणि—
पुंलिङ्गे– सः तौ ते
स्त्रीलिङ्गे– सा ते ताः
नपुंसकलिङ्गे– तत् ते तानि
ग) ‘तद्' शब्दस्य रूपैः वाक्यानि पूरयत—
१. चूतः । २. मालती । ३. वटः ।
४. कमलम्। ५. जाती । ६. कुसुमम्।
घ) The Terminations of the Present Tense are -
प्र. ति तः अन्ति eg. गच्छति गच्छतः गच्छन्ति
म. सि थः थ गच्छसि गच्छथः गच्छथ
उ. मि वः मः गच्छामि गच्छावः गच्छामः
शब्दार्थकोशः
सः m. सा f. तत् n. that
वृक्ष m. tree
लता f. creeper
पुष्पम् n. flower
गच्छति P. goes
तिष्ठति P. stands
फलति P. bears fruits
पठति P. reads
म्लायति P. fades
पुष्यति P. puts forth flowers
वदति P. speaks
पतति P. falls
स्फुरति P. throbs
लसति P. shines
विकसति P. blooms
चूत: m. mango tree
वट: m. bayan tree
कमलम् n. lotus
មេរៀនទី៣
तृतीयः पाठः - बालौ फले
बालौ
फले
इमौ बालौ । तौ देवौ । इमे फले । इमे बाले । ते पात्रे । ते लते ॥
बालौ पठतः । फले पततः । बाले गायतः । वृक्षौ फलतः। गजौ गच्छतः । पुष्पे विकसतः । नेत्रे स्फुरतः। अजौ तिष्ठतः । माले म्लायतः । लते पुष्प्यतः । मुखे लसतः । देवौ वदतः ॥
क) प्रश्ना:-
१. तौ कौ ? २. ते के ? ३. कौ पठतः ? ४. के पततः ? ५. के गायतः ? ६. कौ फलतः ? ७. कौ गच्छतः ?
८. के विकसतः ? ९. के स्फुरतः ? १०. कौ तिष्ठतः ? ११. के म्लायतः ? १२. के पुष्प्यतः ? १३. के लसतः ? १४. कौ वदतः ?
ख) ‘इदम् — तद्' शब्दयोः रूपैः वाक्यानि पूरयत-
१. हस्तौ । २. कुसुमे । ३. चरणौ ।
४. अङ्गुल्यौ। ५. पात्रे । ६. कन्ये ॥
ग) ‘लट्’ (Present Tense) रूपैः वाक्यानि पूरयत-
१. बालौ (पठ् )। २. बाले (गाय्)। ३. घटौ (पत्)।
४. गजौ (गच्छ्)। ५. पुत्रौ (नम्) । ६. छात्रौ (लिख्)।
७. नटौ (नृत्य्) । ८. नेत्रे (पश्य्) । ९. पादौ (चल्) ।
१०. नेत्रे (स्फुर्) ॥
शब्दार्थकोशः
इमौ m. इमे f. इमे n. these two
तौ m. ते f. ते n. those two
कौ m. के f. केn. what
गायति P. sings
फलम् n. fruit
चरण: m. leg
कन्या f. girl
घटः m. pot
पुत्रः m. son
छात्रः m. student
नटः m. dancer
हस्तः m. hand
अङ्गुली f. finger
कुसुमम् n. flower
មេរៀនទី៤
चतुर्थः पाठः - हंंसाः पद्मानि
हंसाः
पद्मानि
इमे हंसाः। इमा लताः। इमानि पद्मानि । ते गजाः । ता मालाः । तानि फलानि ॥
हंसाः कूजन्ति। माला म्लायन्ति। पद्मानि स्फुटन्ति। बाला गायन्ति । गजा गच्छन्ति । लताः पुष्यन्ति । अजाः तिष्ठन्ति ।
पुष्पाणि विकसन्ति। फलानि पतन्ति। वृक्षाः फलन्ति। मुखानि लसन्ति। बालाः पठन्ति ॥
क) प्रश्ना:-
१. इमे के ? २. इमानि कानि ? ३. इमाः काः ? ४. के कूजन्ति ? ५. कानि स्फुटन्ति ? ६. के गच्छन्ति ?
७. के तिष्ठन्ति ? ८. कानि पतन्ति ? ९. का ग्लायन्ति ? १०. का गायन्ति ? ११. काः पुष्यन्ति ? १२. कानि विकसन्ति ?
१३. कानि लसन्ति ? १४. के पठन्ति ?
ख) Fill up the blanks with the forms of इदम् —तद् शब्दा's
१. कुसुमानि। २. लताः। ३. वृक्षाः।
४. गृहाणि। ५. छात्राः। ६. पर्णानि।
७. श्लोकाः। ८. अचलाः। ९. देवताः।
ग) Fill up the blanks with the Present Tense of the roots within the brockets.
१. लताः ( म्लाय्)। २. छात्राः (पठ्)। ३. गजौ (तिष्ठ्)।
४. कन्या (गाय्)। ५. फले (पत्)। ६. बालाः (नृत्य्)।
७. नृपाः (जय्)। ८. मृगाः (अट्)। ९. बालाः (क्रीड्)।
१०. वृक्षौ (फल्)॥
शब्दार्थकोशः
हंसः m. swan
पद्मम् n. lotus
इमे m. इमाः f. इमानि n. these
ते m. f तानि n. those f.
के m. काः f. कानि n. what
कूजन्ति P. cackle
स्फुटन्ति P. bloom
पर्णम् n. leaf
अचलः m. mountain
देवता f. goddess
មេរៀនទី៥
पञ्च पाठः - अश्वः रथः
अश्वः
रथः
अयम् अश्वः। अयं रथः। तृणम् । सारथिः। गृहम् । नृपतिः। जलम्। कपिः। अहम्। त्वम्।
सारथिः रथं नयति। कपयः फलानि खादन्ति । हरिः गृहं गच्छति। अश्वाः तृणं चरन्ति। बालौ जलम् आनयतः। नृपतयः अश्वान् आरोहन्ति ।
अहं फलानि खादामि । त्वं वृक्षम् आरोहसि ॥
क) प्रश्ना:-
१. सारथिः किं करोति ? २. कपयः कानि खादन्ति ? ३. को गृहं गच्छति ? ४. अहं कम् आरोहामि ?
५. अश्वाः किं चरन्ति ? ६. बालौ किम् आनयतः ? ७. के कान् आरोहन्ति ? ८. त्वं किं खादसि ?
ख) 'लट्' रूपैः वाक्यानि पूरयत-
१. अश्वा जनान् (वह्)। २. नृपतयः प्रजाः ( रक्ष्)। ३. वृषभौ तृणं (चर्)।
४. त्वं जलम् (आनय्) । ५. अहं पुष्पाणि (पश्य्)। ६. त्वंफलं (खाद्) ।
ग) ‘इदम्' शब्दस्य रूपैः वाक्यानि पूरयत-
१. सारथिः रथं नयति । २. कपयः फलानि खादन्ति।
३. अश्वौ रथं वहतः । ४. बालिका गृहं गच्छन्ति।
घ) 'अस्मद्' शब्दः (I ) अहम् आवाम् वयम् - प्रथमा
'युष्मद्' शब्दः (You) त्वम् युवाम् यूयम् – प्रथमा
शब्दार्थकोशः
रथः m. chariot
तृणम् n. grass
सारथिः m. charioteer
नृपतिः m. king
कपिः m. monkey
अहम् (all genders) I
त्वम् (all genders) You
नयति P. leads
आनयतः P. bring
खादन्ति P. eat
चरन्ति P. graze
आरोहन्ति P. ascend
Note:
1. Roots take First Person when ‘अस्मद् ' शब्द is the subject: e.g. अहं पठामि
2. Roots take Second Person when 'युष्मद्' शब्द is the subject: e.g. त्वं पठसि
3. Roots take Third Person when any शब्द other than अस्मद् & युष्मद् is the subject: e.g. सः पठति
មេរៀនទី៦
षष्ठः पाठः - नौका शकटम्
नौका
इयं नौका।


शकटम्
इदं शकटम्।
नाविकः। चन्द्रः। शाकटिकः। क्षेपणी। पादः। कशा। नदी । नारी। चक्रम्। आवाम्। युवाम्।
आवां शकटेन गृहं गच्छावः । युवां नौकया नदीं तरथः । नाविकः क्षेपण्या नौकां क्षिपति । शाकटिकः कशया वृषभौ ताडयति । शकटं
चक्राभ्यां गच्छति । लता पुष्पैः लसति। बालको हस्तेन चन्द्रम् आह्वयति । जनाः पादाभ्यां गच्छन्ति । नारी पत्या विलसति ॥
क) प्रश्ना:-
१. युवां केन गृहं गच्छथः ? २. लता कैः लसति ? ३. नारी केन विलसति ? ४. आवां कया नदीं तरावः ?
५. शकटं काभ्यां गच्छति ? ६. जनाः काभ्यां गच्छन्ति ? ७. नाविकः कया नौकां क्षिपति ?
८. शाकटिकः कया वृषभौ ताडयति ? ९. बालकः कथं चन्द्रम् आह्वयति ?
ख) ‘तद्’ शब्दस्य रूपैः वाक्यानि पूरयत
१. नाविको नौकां क्षिपति ।
२. लता कुसुमैः विलसति ।
ग) 'लट्' रूपैः वाक्यानि पूरयत
१. इमे बालाः पादाभ्यां पाठालयं (गच्छ्)। २. वयं कर्णाभ्यां शब्दम् (आकर्ण)।
३. नासिकया वयं गन्धं (जिघ्र ) । ४. बालका विद्यया (लस्)॥
शब्दार्थकोशः
नौका f. boat
नाविकः m. boat-man
क्षेपणी f. oar
शकटम् n. cart
शाकटिक m. cart-man
कशा f. whip
चक्रम् n. wheel
पादः m. foot
नारी f. woman
आवाम् m. f. n. we two
युवाम् m. f. n. You two
तरथ: P cross
क्षिपति P. pushes
वृषभ: m. bull
ताडयति P. beats
आह्वयति P. calls
जिघ् P. to smell
आकर्ण् P. to hear
មេរៀនទី៧
सप्तमः पाठः - धेनुः व्याघ्रः


धेनुः
व्याघ्रः
क्षीरम् । ज्ञानम् । आहारः । वत्सः । धनम् । उद्यानम् । अध्ययनम् । विद्या । पाठालयः । वयम्। यूयम्।
धेनवो वत्सेभ्यः क्षीरं वितरन्ति । व्याघ्र आहारायभ्राम्यति । बालकाः अध्ययनाय पाठालयं गच्छन्ति । बालिकाः पुष्पाय उद्यानं व्रजन्ति ।
वयं जलाय नदींगच्छामः। यूयम् अश्वेभ्यः तृणं यच्छथ। वयं ज्ञानायपठामः। जना धनाय देशान्तरं गच्छन्ति । बालाविद्यायै धनं यच्छन्ति ॥
क) प्रश्ना: -
१. धेनवः केभ्यः क्षीरं वितरन्ति ? २. व्याघ्रः किमर्थं परिभ्रमति ? ३. बालकाः किमर्थं पाठालयं गच्छन्ति ?
४. बालिकाः किमर्थम् उद्यानं व्रजन्ति ? ५. यूयं किमर्थं नदीं गच्छथ ? ६.वयं केभ्यः तृणं यच्छामः ? ७.यूयं किमर्थं पठथ ?
८. जनाः किमर्थं कुत्र गच्छन्ति ? ९. विद्यायै के किं यच्छन्ति ?
ख) चतुर्थ्यन्तैः पदैः वाक्यानि पूरयत
१. अहं ( धेनु) तृणं यच्छामि ।
२. नृपाः (कवि) धनं यच्छन्ति ।
३. यूयं (ज्ञान) ग्रन्थान् पठथ ॥
ग) ‘लट्’ रूपैः वाक्यानि पूरयत
१. छात्राः सायम् आरोग्याय क्रीड् ।
२. बालौ हस्ताभ्यां पुस्तकानि आनय् ।
३. वयं नेत्राभ्यां वस्तूनि पश्य् ॥
शब्दार्थकोशः
धेनुः f. cow
वत्सः m. calf
क्षीरम् n. milk
व्याघ्र m. tiger
आहार : m. food
ज्ञानम् n. knowledge
उद्यानम् n. garden
अध्ययनम् n. study
पाठालयः m. school
वयम् m. f. n. we
यूयम् m. f. n. you
वितरन्ति P. give
भ्राम्यति P. wanders
व्रजन्ति P. go
यच्छथ P. give
देशान्तरम् n. another country
नृपः m. king
कवि : m. poet
មេរៀនទី៨
अष्टमः पाठः - शाखा पर्णम्


शाखा
पर्णम्
तरुः । पर्वतः । बीजम् । मधु । नगरम् । अङ्कुरः । पीठम् । समुद्रः । मक्षिकाः । रत्नम् । ग्रामः । धनिकः ।
शाखायाः पर्णानि पतन्ति । मक्षिकाः पुष्पेभ्यो मधु पिबन्ति। बीजात् अङ्कुरः प्ररोहति। पात्रात् जलं स्रवति। धेनुः व्याघ्रात् त्रस्यति ।
अहं पीठात् उत्तिष्ठामि । त्वं तरोः अवरोहसि । पर्वतात् नदी प्रवहति । धनिका ग्रामात् नगरं गच्छन्ति । समुद्रात् जना रत्नानि आनयन्ति ॥
क) प्रश्ना: -
१. कस्याः पर्णानि पतन्ति ? २. मक्षिकाः केभ्यो मधु पिबन्ति ? ३. कस्मात् अङ्कुरः प्ररोहति ? ४. कस्मात् जलं स्रवति ?
५. धेनुः कस्मात् त्रस्यति ? ६. त्वं कस्मात् उत्तिष्ठसि ? ७. अहं कस्मात् अवरोहामि ? ८. नदी कस्मात् प्रवहति ?
९. धनिकाः कस्मात् कुत्र गच्छन्ति ? १०. जनाः कस्मात् कानि आनयन्ति ?
ख) पञ्चम्यन्तैः पदैः वाक्यानि पूरयत —
१. मक्षिकाः (कमल) मधु पिबन्ति ।
२. (तटाक) नार्य आरोहन्ति ।
३. (लता) पुष्पाणि पतन्ति ॥
ग) 'लट्' रूपैः वाक्यानि पूरयत -
१. शकटं ग्रामात् (आगच्छ्) । २. अहं दूरात् गजं (पश्य्) ।
३. वयं मक्षिकाभ्यः (त्रस्) । ४. यूयं वृक्षात् (अवरोह्) |
घ) अर्थभेदं वदत — (Give difference in meaning)
१. तरति, वितरति। २. आरोहति, अवरोहति, प्ररोहति ॥
शब्दार्थकोशः
तरु: m. tree
शाखा f. branch
मधु n. honey
पीठम् n. seat
बीजम् n. seed
अङ्कुरः m. sprout
मक्षिका f. fly
जन: m. people, person
रत्नम् n. precious stone
प्ररोहति P. grows
पिबन्ति P. drink
स्रवति P. flows
त्रस्यति P. fears
उत्तिष्ठामि P. (I) stand up
अवरोहसि P. (You) descend
तटाकम् n. lake
មេរៀនទី៩
नवमः पाठः - माता दुहिता


माता
दुहिता
पिता । भर्ता । जामाता । पतिः । पत्नी । पुत्रः । आज्ञा । शिशुः । गानम् ।
दुहिता भर्तुः गृहं गच्छति । माता दुहितुः शिशुं लालयति । शिशवो मातॄणां गानेन तुष्यन्ति ।पत्नी पत्युः आज्ञाम् अनुसरति । पुत्रः पितुः आज्ञया जामातुः गृहात् स्वसारम् आनयति । वयं शकटस्य शब्दम् आकर्णयामः । यूयं धेनोः क्षीरं पिबथ ॥
क) प्रश्ना: -
१. दुहिता कस्य गृहं गच्छति ? २. माता कस्याः शिशुं लालयति ? ३. शिशवः कासां गानेन तुष्यन्ति ?
४. पत्नी कस्य आज्ञाम् अनुसरति ? ५. पुत्रः कस्य गृहात् काम् आनयति ? ६. यूयं कस्य शब्दमाकर्णयथ ?
७. वयं कस्याः क्षीरं पिबामः ?
ख) ‘इदम्’ शब्दस्य रूपैः वाक्यानि पूरयत -
१. मम माता । २. कृष्णस्य दुहिता ।
३. शिशवः पांसुषु क्रीडन्ति । ४.वयम् फलानि खादामः ॥
ग) उचितान्युत्तराणि वदत — (Give proper answers)
१. त्वं कुत्र गच्छसि ? २. त्वं कुत्र वससि ? ३. रामः कुत्र गच्छति ? ४. कौ तव पितरौ ? ५. तव भ्राता कः ?
६. किं ते नाम ? ७. कया त्वं लिखसि ? ८. कदा त्वं पाठं पठसि ? ९. त्वं कस्याज्ञामनुसरसि ? १०. तव स्वसा कुत्र पठति ?
शब्दार्थकोशः
माता f. mother
दुहिता f. daughter
पिता m. father
भर्ता, पतिः m. husband
पत्नी f. wife
जामाता m. son-in-law
स्वसा f. sister
आज्ञा f. order
शिशुः m. child
गानम् n. song
लालयति P. is fondling
तुष्यन्ति P. are pleased
अनुसरति P. follows
आकर्णयामः P. (we) hear
पांसुः m. dust
भ्राता m. brother
មេរៀនទី១០
दशमः पाठः - काकः भेकः


काकः
भेकः
आकाशम् । वर्षाः । वापी । नीडम् । नरः । भूमिः । दिवा । देवः। नक्तम्।
काकः शाखायाम्उपविशति । स दिवाआकाशे डयते, नक्तं नीडे वसति । भेका वापीषु वसन्ति। ते वर्षासु रटन्ति । अयं भेको भूमौ प्लवते ।
लतासु कुसुमानि विकसन्ति । वयं तरुषु फलानि पश्यामः । समुद्रे रत्नानि जायन्ते । नरा भूमौ वसन्ति। देवाः स्वर्गे तिष्ठन्ति ॥
क) प्रश्ना:-
१. काकः कस्याम् उपविशति ? २. स दिवा कुत्र डयते ? ३. स नक्तं कुत्र वसति ? ४. भेकाः कुत्र वसन्ति ?
५. ते कदा रटन्ति ? ६. अयं भेकः कुत्र प्लवते ? ७. कासु कुसुमानि विकसन्ति ? ८. यूयं केषु फलानि पश्यथ ?
९. रत्नानि कुत्र जायन्ते ? १०. भूमौ के वसन्ति ? ११. देवाः कुत्र तिष्ठन्ति ?
ख) ‘लभ्' धातोः (to get) (आत्मनेपदी) 'लट्' रूपाणि-
प्र. पु. लभते लभेते लभन्ते 3rd Person
म. पु. लभसे लभेथे लभध्वे 2nd Person
उ. पु. लभे लभावहे लभामहे 1st Person
ग) ‘लट्’ रूपैः वाक्यानि पूरयत-
१. पुत्राः पितुः धनं ( लभ्) । २. भेका भूमौ (प्लव्) ।
३. खगा आकाशे (डय्)॥
घ) Give difference in meaning
१. तिष्ठति, उत्तिष्ठति । २. सरति, अनुसरति ।
शब्दार्थकोशः
भेक: m. frog
नीडम् n. nest
दिवा in. during day time
वर्षाः f. (always plural) rainy season
वापी f. well नक्तम् in. by night
उपविशति P. sits
डयते A. flies
वसति P. dwells
रटन्ति P. call out
प्लवते A. jumps up
खगः m. a bird
មេរៀនទី១១
एकादशः पाठः - वीणा घण्डा


वीणा
घण्टा
अत्र । गायकः । तत्र । कुत्र ? परुषः । मधुरः ।
अत्र एका वीणा अस्ति । गायको वीणां वादयति । घण्टा कुत्र वर्तते ? घण्टा तत्र वर्तते । रामो घण्टां वादयति । घण्टायाः स्वरः परुषः ।
वीणायाः स्वरो मधुरः ॥
मालती सम्यग् वीणां वादयति । मालविका मधुरं गायति । कोकिला वसन्ते मधुरं कूजति । गानेन सर्वे जनाः तुष्यन्ति ॥
क) प्रश्ना:-
१. कुत्र एका वीणा अस्ति ? २. को वीणां वादयति ? ३. को घण्टां वादयति ? ४. कस्याः स्वरः परुषः ?
५. कस्याः स्वरो मधुरः ? ६. का सम्यग् वीणां वादयति ? ७. का कदा मधुरं कूजति ? ८. केन सर्वे जनाः तुष्यन्ति ?
ख) ‘तद्' शब्दस्य रूपैः वाक्यानि पूरयत-
१. गायकः वीणां वादयति ।
२. नार्यौ भेकान् पश्यतः ।
३. बालाः फलानि भक्षयन्ति ॥
ग) 'किम्' शब्दस्य प्रथमाविभक्तिरूपाणि—
पुंलिङ्गे (who) कः कौ के
स्त्रीलिङ्गे (who) का के काः
नपुंसकलिङ्गे (what) किं के कानि
घ) अर्थभेदं वदत — गच्छति, आगच्छति । नयति, आनयति ॥
ङ) विपरीतपदम् (Opposite word ) – परुषः x मधुरः
शब्दार्थकोशः
घण्टा f. bell
अत्र in. here
तत्र in. there
कुत्र in. where?
गानम् n. song
गायकः m. songster
परुषः a. m. harsh
मधुर: a. m. sweet
अस्ति P. there is
वादयति P. plays on
सम्यग् in. well
वसन्तः m. the spring season
कोकिला f. female cuckoo
सर्व pron. all
មេរៀនទី១២
द्वादशः पाठः - पुस्तकम् पेटिका


पुस्तकम्
पेटिका
पुस्तकम् । पेटिका । इह । च। वा ।
इह एकं पुस्तकम् एका पेटिका च स्तः। तत् कृष्णस्य 'शब्दमञ्जरी' पुस्तकम्। तस्य पुस्तकस्य मूल्यम् एको रूप्यकः। तस्मिन् पुस्तके द्विशतं
पुटानि सन्ति। मम 'श्रीरामोदन्त' पुस्तके षष्टिः पुटानि सन्ति॥
अस्यां पेटिकायां कानि वस्तूनि विद्यन्ते ? तस्यां पेटिकायां वस्त्राणि भूषणानि धनानि च विद्यन्ते। इयं हरे: पेटिका। स इमां कु्चिकया उद्धाटयति।
कुञ्चिका हरे: गोपालस्य वा करे वर्तते॥
क) प्रश्ना: -
१. इह के स्तः ? २. इदं कस्य पुस्तकम् ? ३. कृष्णस्य पुस्तकस्य किं मूल्यम् ? ४. कस्मिन् द्विशत पुटानि सन्ति ?
५. तव पुस्तके कति पुटानि सन्ति ? ६. इयं कस्य पेटिका ? ७. कस्तां कया उद्धाटयति ? ८. कुश्चिका कस्य करे वर्तते ?
ख) 'मम-वयम्' पदाभ्यां यथोचितं वाक्यानि पूरयत -
१. धनम् आभरणानि च पेटिकायां रक्षामः।
२. मालती गृहमागत्य वीणां शिक्षयति।
३. गृहं नद्यास्तीरे वर्तते।
४. पाठान् यथाकालं पठाम:
ग) 'अस्' धातोः (to be) 'लट्' रूपाणि -
3rd Person प्र. पु. अस्ति स्तः सन्ति
2nd Person म. पु. असि स्थः स्थ
1st Person उ. पु. अस्मि स्वः स्मः
घ) 'अस्' धातोः 'लट्' रूपैः वाक्यानि पूरयत -
१. इह द्वौ अश्वौ । २. वयं चत्वारो भ्रातरः ।
शब्दार्थकोशः
पेटिका f. box
इह in. here
च in. and
वा in. or
स्त: P. are
मूल्यम् n. price
रूप्यक: m. a rupee
शतम् n. hundred
धनम् n. wealth
पुटम् n. page
वस्तु n. a thing
विद्यन्ते A. there are
उद्धाटयति P. opens
वर्तते A. there is
कु़ञ्चि f. key
यथाकालम् in. in time
शिक्षयति P. teaches
भूषणम् n. ornament
មេរៀនទី១៣
त्रयोदशः पाठः - नक्षत्राणि

यदा । तदा । कदा ? तु । किन्तु । न । वत् ।
नक्षत्राणि कदा प्रकाशन्ते ? नक्षत्राणि रात्रौ प्रकाशन्ते। तानि दिवा न प्रकाशन्ते। मेघैः आवृते नभसि रात्रौ च न प्रकाशन्ते॥
यदा सूर्य: अस्तम् अयते तदा ताराणि प्रकाशन्ते। तानि व्योम्नि हीरवत् द्योतन्ते। नक्षत्राणां राजा चन्द्रः। चन्द्रस्य प्रकाश: चन्द्रिका॥
अहं नक्षत्राणि गणयामि। किन्तु तानि गणयिंतुं न पारयामि। तानि असङ्ख्यानि वर्तन्ते। तत्र अश्विन्यादीनि सप्तविंशतिः नक्षत्राणि प्रधानानि॥
क) प्रश्ना: -
१. नक्षत्राणि कुत्र प्रकाशन्ते ? २. तानि कदा न प्रकाशन्ते ? ३. तानि कुत्र हीरवत् द्योतन्ते ? ४. केषां राजा चन्द्रः ?
५. तस्य प्रकाशस्य नाम किम् ? ६. त्वं किं करोषि ? ७. कानि गणयितुं न पारयसि ? ८. कुतो गणयितुं न पारयसि ?
९. प्रधाननक्षत्राणि कानि ? कति ?
ख) 'त्वम्-तव' पदाभ्यां यथायोगं वाक्यानि पूरयत -
१. नक्षत्राणि गणयसि। २. पितरौ पुत्रीं लालयतः।
ग) 'लट्' रूपैः वाक्यानि पूरयत -
१. वयं पीठेषु (उपविश्)। २. अहम् अङ्गुली: (गण्)।
३. तृणानि नक्षत्राणि च असङ्ख्यानि (अस्) ॥
शब्दार्थकोशः
नक्षत्रम् n. star
यदा in. when
तदा in. then
कदा in. when
तु, किन्तु in. but
न in. not
वत् in. like
प्रकाशन्ते A. shine
आवृते a. n. covered with
नभस् n. sky
अस्तम् अयते A. sets
तारम् n. star
व्योमन् n. sky
हीरवत् in. like diamond
द्योतन्ते A. shine
चन्द्रिका f. moon-light
गणयामि P. (I) count
पारयामि P. (I) am able
असङ्ख्यानि a. n. countless
अश्विन्यादीनि a. n. beginning with अश्विनी (अश्विन्यादि सप्तविंशति नक्षत्राणां नामानि ज्ञातव्यानि।)
सप्तविंशतिःf. twenty seven
करोषि U. (you) do
មេរៀនទី១៤
चतुर्दशः पाठः - भ्राता स्वसा च
ह्यः। श्वः । परश्वः । अद्य। वार्ता। तर्जनी।
अत्र एको बालक एका बालिका च तिष्ठतः। तौ पाठालयात् आगच्छताम्। सा बालिका तस्य बालकस्य स्वसा। तौ किं कुरुतः ? तौ सँल्लपतः॥
स बालको ह्यः पाठं न अपठत्। उपाध्यायः तम् अताडयत्। तां वार्तां तस्य स्वसा पित्रे अकथयत्। पिता पुत्रम् अभर्त्सयत। तेन कुपितः स बालकः स्वसारम् अनिन्दत्। सा भ्रातरं तर्जन्या तर्जयते॥
राम ! अपि त्वम् अद्य प्रातः स्वसुः गृहम् अगच्छः ? आर्य ! अहं न अगच्छम्। श्वः परश्वो वा गमिष्यामि। ह्यः सायं त्वं किम् अकरोः ? ह्यः सायम् अहं पित्रा सह विपणिम् अगच्छम्॥
क) प्रश्ना: -
१. अत्र कौ तिष्ठतः ? २. तौ कुत आगच्छताम् ? ३. सा बालिका का ? ४. को ह्यः पाठं न अपठत् ? ५. कः तम् अताडयत् ?
६.तां वार्तां का पित्रे अकथयत् ? ७.कः पुत्रमभर्त्सयत ? ८. तेन कुपितः स बालकः किम् अकरोत् ? ९.सा भ्रातरं किं करोति ? १०. त्वं कदा स्वसुः गृहं गमिष्यसि ? ११. त्वं कदा विपणिमगच्छः ?
ख) 'एतद्' शब्दस्य लिङ्गत्रयेऽपि प्रथमाविभक्तिरूपाणि -
पुंलिङ्गे एषः एतौ एते
स्त्रीलिङ्गे एषा एते एताः
नपुंसकलिङ्गे एतत् एते एतानि
ग) 'एतद्' शब्दस्य रूपैः वाक्यानि पूरयत -
१. मम भ्राता। २. तव स्वसा। ३. - पुस्तकम् । ४. कपी।
५. कशे। ६. फले । ७. धेनवः । ८. तरवः ।
९. नीडानि॥
शब्दार्थकोशः
ह्य: in. yesterday
श्वः in. tomorrow
परश्व: in. the day after tomorrow
अद्य in. today
वार्ता f. news
तर्जनी f. the fore-finger
बालक: m. boy
गमिष्यामि P.(I) shall go
बालिका f. girl
सँल्लपत: P. converse
अकथयत् P. told
अभर्त्सयत A. threatened
अनिन्दत् P. abused
तर्जयते A. threatens
विपणि: f. a market
មេរៀនទី១៥
पञ्चदशः पाठः - हस्तौ

वामहस्तः । दक्षिणहस्तः । अङ्गुली।
राम ! उत्तिष्ठ। तव हस्तौ दर्शय। त्वं केन हस्तेन लिखसि ? आर्य ! अहम् अनेन हस्तेन लिखामि। स दक्षिणहस्तः। अन्यो वामहस्तः। एकस्मिन् हस्ते पञ्च अङ्गुल्यः सन्ति। द्वयोः हस्तयोः दश अङ्गुल्यः सन्ति। पाणौ विविधा रेखा विद्यन्ते॥
राम उपविशतु। कृष्ण उत्तिष्ठतु। कृष्ण ! त्वं हस्ताभ्यां नेत्रे स्पृश। वयं नेत्राभ्यां किं कुर्मः ? वयं नेत्राभ्यां पश्यामः । हस्ताभ्यां कर्माणि कुर्मः। अन्येषां प्राणिनां द्वे नेत्रे विद्येते; हस्तौ न स्तः॥
क) प्रश्ना: -
१. एकस्मिन् हस्ते कति अङ्गुल्यः सन्ति ? २. द्वयो: हस्तयोः कति अङ्गुल्य: सन्ति ? ३. कुत्र विविधा रेखा विद्यन्ते ?
४. हस्ताभ्यां किं कुर्मः ? द्वे नेत्रे विद्येते, हस्तौ न स्तः, केषाम् ?
ख) उचितैः पदैः वाक्यानि पूरयत -
१. ह्यः सायं पुत्रः पित्रा सह विपणिम् । २. अहं श्वः प्रभाते स्वसुः गृहं ।
३. येन वयं लिखामः सः । ४. येन वयं पुस्तकं धरामः सः ।
५. पक्षिणः पक्षाभ्यां नभसि ॥
ग) 'पठ्' धातोः (to study) (परस्मैपदी) 'लड्' रूपाणि -
प्र. पु. अपठत् अपठताम् अपठन्
म. पु. अपठः अपठतम् अपठत
उ. पु. अपठम् अपठाव अपठाम
घ) 'लड्' (Imperfect Past Tense) रूपैः वाक्यानि पूरयत -
१. अहं ह्यः पाठम् (पठ्)। ३. गुरु इमां कथाम् (कथ्)।
२. मालविका वीणाम् (वाद्)। ४. जनाः (आगम्) ॥
शब्दार्थकोशः
वामहस्त: m. left hand
दक्षिणहस्त: m. right hand
अङ्गुली f. finger
दर्शय P. (you) show
लिखामि P.(I) write
उत्तिष्ठ P. (you) stand up
पाणि: m. palm
विविधा: a. f. various
रेखा f. line
स्पृश P. (you) touch
प्रभातम् n. dawn
धराम: P. (we) hold
មេរៀនទី១៦
षोडशः पाठः - लेखनम्
तथा। इति। एवम् । सह। विना । मा।
अयं कः ? स बालकः। अस्य नाम किम् ? तस्य नाम कृष्ण इति। स किं करोति ? स लिखति। स भ्रात्रे पत्रिकां लिखति॥
त्वं किं लिखसि ? अहं लेखावलिपुस्तके संस्कृतप्रतिलेखनं लिखामि। प्रतिलेखनेन अक्षराणि सुन्दराणि भवन्ति॥
तव नाम किम् ? मम नाम राघव इति। राघव ! त्वं कस्मात् न लिखसि ? आर्य ! मम लेखनी नास्ति। लेखन्या विना कथं लिखामि ? भद्र ! त्वं प्रतिदिनं लेखन्या पुस्तकेन च विना पाठालयम् आगच्छसि। एवं मा कुरु। आर्य ! अहं कृष्णेन सह गृहं गत्वा लेखनीम् आनयामि। तथा कुरु॥
क) प्रश्ना: -
१. अयं बालकः किं लिखति ? २. केन अक्षराणि सुन्दराणि भवन्ति ? ३. राघवः कुतो न लिखति ?
४. स प्रतिदिनं पाठालयं कथम् आगच्छति ? ५. त्वं केन सह कुत्र गत्वा लेखनीमानयसि ?
Note: the correct writing of the letter 'म' कार -
1. 'म' कार at the end of a sentence should be written as 'म्' e.g. लेखनम्।
2. 'म' कार followed by a vowel should be written as 'म्' e.g. कथम् आगच्छति।
3. 'म' कार followed by a consonant should be written as (अनुस्वार) e.g. त्वं केन सह भाषसे।
ख) उचितैः पदैः वाक्यानि पूरयत -
१. विना कथं लिखसि ? ३. उपाध्यायः सह सँल्लपति।
२. विना कथं पठसि ? ४. त्वं पित्रे कदा लिखसि ?
ग) 'पठ्' धातोः (परस्मैपदी) 'लोट्' Imperative Mood (expresses command, wish, blessing etc.) रूपाणि -
प्र. पु. पठतु-पठतात् पठताम् पठन्तु
म. पु. पठ-पठतात् पठतम् पठत
उ. पु. पठानि पठाव पठाम
शब्दार्थकोशः
लेखनम् n. writing
तथा in. so इति in. thus
एवम् in. in this manner
सह in. with
विना in. without
मा in. don't; कुरु P. (you) do
नाम n. name
पत्रिका f. letter
प्रतिलेखनम् n. copy writing
सुन्दरम् a. n. beautiful
लेखनी f. a pen
भद्र ! oh boy !
មេរៀនទី១៧
सप्तदशः पाठः - विद्यालयः
आहत्य। कति। प्रश्नः। कक्ष्या।
अस्मिन् विद्यालये चतस्रः कक्ष्याः सन्ति। एते सप्त छात्रा: चतुर्थकक्ष्यायां पठन्ति। चित्रं पश्य। एको बालकः तिष्ठति। अन्ये उपविष्टाः। तिष्ठन्
बालक उपाध्यायस्य प्रश्नानाम् उत्तराणि कथयति॥
त्वं कस्यां कक्ष्यायां पठसि ? अहं तृतीयकक्ष्यायां पठामि। कति छात्राः त्वया सह पठन्ति ? मया सह चत्वारो बालकाः तिस्रो बालिकाश्च पठन्ति। आहत्य वयम् अष्टौ सहपाठिन: स्मः। द्वितीयकक्ष्यायां द्वे बालिके त्रयो बालकाश्च पठन्ति। प्रथमकक्ष्यायां पञ्च बालकाः पञ्च बालिकाश्च सन्ति॥
क) प्रश्ना: -
१. अस्मिन् विद्यालये कति कक्ष्याः सन्ति ? २. एते सप्त छात्राः कस्यां कक्ष्यायां पठन्ति ? ३. तिष्ठन् बालकः किं करोति ?
४. तृतीयकक्ष्यायां के के पठन्ति ? ५. आहत्य यूयं कति सहपाठिनः स्थ ?
६. प्रथमकक्ष्यायां कति बालकाः कति बालिकाश्च सन्ति?
ख) Note the combination of the words : -
१. एक: + बालकः = एको बालकः
२. चत्वारः + बालकाः = चत्वारो बालकाः
३. तिस्रः + बालिकाः = तिस्रो बालिकाः
४. त्रयः + बालकाः = त्रयो बालकाः
ग) 'किम्' शब्दस्य रूपैः यथायोगं वाक्यानि पूरयत -
१. एतत् ? २. अयम् ? ३. इदम् ? ४. त्वं श्लोकं पठसि ?
५. इदं बालकस्य पुस्तकम् ? ६. त्वं ग्रामे वससि ?
घ) संख्याशब्दाः रूपाणि- पुंसि स्त्रियां नपुंसके
[Numerals] १. एक: एका एकम्
२. द्वौ द्वे द्वे
३. त्रयः तिस्रः त्रीणि
४. चत्वारः चतस्त्रः चत्वारि
शब्दार्थकोशः
विद्यालय: m. school
आहत्य in. on the whole
कति in. (all genders) how many
कक्ष्या f. class
उपविष्टः a. sitting
उत्तरम् n. answer
चित्रम् n. picture
सहपाठिन : m. class-mate
មេរៀនទី១៨
अष्टादशः पाठः - क्रीडा
इदानीम्। तदानीम्। कन्दुकः। चर्म।
इदानीं सायाह्नः। पश्य ! अस्मिन् क्रीडाङ्गणे षट् बालकाः कन्दुकेन क्रीडन्ति। कन्दुकः चर्मणा निर्मितः वातेन पूरितश्च। अतः स ताड्यमान उत्पतति॥
ते बालका इतस्ततो धावन्तो हस्तेन पादेन च कन्दुकं ताडयन्ति। एको बालको भूमौ उपविष्टः। स चिरं क्रीडनेन श्रान्तोऽभवत्। तस्य गात्रं स्विद्यति। स मुहूर्तं विश्रम्य भूयोऽपि* क्रीडिष्यति॥
यदा सूर्य: अस्तं गमिष्यति तदा प्रकाशो न वर्तिष्यते। तदानीम् एते गृहं व्रजिष्यन्ति॥
This sign (S) is called अवग्रह. This is used to denote that the beginning Vowel अ of the
next word has merged, e.g. श्रान्तः + अभवत् = श्रान्तोऽभवत्। भूयः + अपि = भूयोऽपि।
क) प्रश्ना: -
१. इदानीं कः समयः ? २. बालकाः कुत्र केन क्रीडन्ति ? ३. कन्दुकः केन निर्मितः केन पूरितश्च ?
४. स ताड्यमानः किं करोति ? ५. ते बालकाः किं कुर्वन्तः कन्दुकं ताडयन्ति ?
६.उपविष्टो बालकः कथ श्रान्तः अभवत् ? ७.स किं करिष्यति ? ८.प्रकाशः कदा न वर्तिष्यते ? ९.तदानीमेते किं करिष्यन्ति ?
ख) 'एक, द्वि' अनयोः रूपैः वाक्यानि पूरयत -
१. अत्र गजः तिष्ठति। ३. मनुष्याणां हस्तौ स्तः। २. इह धेनु: तृणं चरति।
४. नार्यौ जलाय गच्छतः॥
ग) 'गम्-गच्छ्' धातोः 'लट्' (Future Tense) रूपाणि -
प्र. पु. गमिष्यति गमिष्यतः गमिष्यन्ति
म. पु. गमिष्यसि गमिष्यथः गमिष्यथ
उ. पु. गमिष्यामि गमिष्यावः गमिष्यामः
घ) धावन्, तिष्ठन्, गच्छन्-इमे 'शतृ' प्रत्ययान्ता: (Present Participles)
ङ) क्रीड्, पिब्, वद्-धातूनां 'शतृ' प्रत्ययान्तान् वदत।
शब्दार्थकोशः
क्रीडा f. sport
इदानीम् in. now
तदानीम् in. then
सायाह्नः m. evening time
क्रीडाङ्गणम् n. play-ground
कन्दुक: m. ball
क्रीडन्ति P. (they) play
चर्मम् n. leather
वात: m. wind
भूयोऽपि in. again
ताड्यमान Pr. P. being beaten
उत्पतति P. goes up
इतस्तत: in. here & there
श्रान्त: P.P. tired
गात्रम् n. body
मुहूर्त: m. n. a while
មេរៀនទី១៩
एकोनविंशः पाठः - पुष्पगुच्छः
भृङ्ग: । मकरन्दः । अलम्।
अत्र एक: पुष्पगुच्छो वर्तते। अयं रमणीयः पुष्पगुच्छः। अयं रूपेण नेत्रं गन्धेन घ्राणं च आनन्दयति। पश्य ! तस्मिन् एको भृङ्ग: तिष्ठति।
स पुष्पेभ्यो मकरन्दं पिबति। तस्मात् भृङ्गस्य मधुप इत्यपि नाम॥
भृङ्गा मकरन्दं पिबन्तो मधुरं गुञ्जन्ति। ते पुष्पात् पुष्पं चलन्तो विहरन्ति। भृङ्गाणां वर्णो नीलः। तेषां भासुरौ द्वौ पक्षौ विद्येते। तेषां मुखे श्मश्रुणः स्थाने रेफतुल्ये द्वे रोमणी स्तः। अतः ते पश्यतां जनानां विनोदम् आवहन्ति॥
भृङ्गाणां समीपं मा गच्छ। ते त्वां दशेयुः। अलं तव कुतूहलेन। आगच्छ, गृहं गच्छावः॥
क) प्रश्ना: -
१. अयं कीदृशः पुष्पगुच्छः ? २. अयं केन किम् आनन्दयति ? ३. भृङ्ग: किं करोति ? ४. के किं कुर्वन्तो मधुरं गुञ्जन्ति ?
५. ते कथं विहरन्ति ? ६. भृङ्गाणां वर्णः कीदृशः ? ७. तेषां कीदृशौ पक्षौ विद्येते ? ८. तेषां मुखे कस्य स्थाने के स्तः ?
९. के केषां विनोदमावहन्ति १०. भृङ्गाणां समीपं गतान् अस्मान् ते किं कुर्यु: ?
ख) Fill up the blanks using the forms of 'त्रि' and 'चतुर्' शब्दs
१. सत्वं रजः तम इति गुणाः सन्ति।
२. दशरथस्य भार्या आसन्।
३. शिवस्य नेत्राणि वर्तन्ते।
४. मृगाणां चरणा विद्यन्ते॥।
ग) अस्मिन् पाठे 'शतृ' प्रत्ययान्ताः (Present Participles) के?
प्र. पु. गमिष्यति गमिष्यतः गमिष्यन्ति
म. पु. गमिष्यसि गमिष्यथः गमिष्यथ
उ. पु. गमिष्यामि गमिष्यावः गमिष्यामः
घ) पर्यायपदम्-भृंगः-षद्ददः-मधुकर :- भ्रमरः-द्विरेफ :- मधुपः॥
शब्दार्थकोशः
पुष्पगुच्छ: m. bunch of flowers
भृङ्ग: m. bee
मकरन्दः m. honey of flowers
अलम् in. enough of
रमणीय: a. m. beautiful
रूपम् n. appearance
गन्धः m. smell
घ्राण: m. nose
गुञ्जन्ति P. (they) hum
विहरन्ति P. (they) play
भासुर: a. m. shining
पक्ष: m. wing
श्मश्रु n. mustache
रेफ: m. the letter 'र'
विनोद: m. pleasure
आवहन्ति P. create, give
दशेयुः P. may bite
कुतूहलम् n. curiosity
មេរៀនទី ២០
विंशः पाठः - वर्षाकालः
परम्। कथम्। प्रति। आतपः। छत्रम्।
इदानीं वर्षाकालः। पश्य ! आकाशं मेघैः सञ्छन्नम्। सर्वत्र वृष्टेः धाराः पतन्ति। जनाः स्वीयानि कर्माणि त्यत्त्वा गृहं गताः। पक्षिणः शैत्येन
पीडिता वृक्षाणां शाखासु तिष्ठन्ति। कृषीवलाः परं क्षेत्राणि कर्षन्ति। ते कृष्टेषु क्षेत्रेषु धान्यानि वपन्ति॥
वर्षाकाले कूपाः सरांसि च जलेन पूर्णानि भवन्ति। नद्योऽपि कूलानि भञ्जयन्त्यः प्रवहन्ति। भूमौ सर्वत्र तृणानि उत्पद्यन्ते। वृक्षा लताश्च पल्लविता भवन्ति॥
त्वं कुत्र प्रस्थितः ? अहम् आपणं प्रति प्रस्थितः । वृष्टिः खलु पतति, कथं गमिष्यसि ? मम हस्ते छत्रं वर्तते। छत्रं जनान् आतपात् वृष्टेश्च रक्षति।
छत्रस्य 'आतपत्रम्' 'वर्षत्रम्' इति नाम ॥
क) प्रश्ना: -
१. जनाः किं कृत्वा कुत्र गताः ? २. पक्षिणः शैत्येन पीडिता: कुत्र तिष्ठन्ति ? ३. के क्षेत्राणि कर्षन्ति ?
४. कुत्र धान्यानि वपन्ति ? ५. कस्मिन् काले कानि जलेन पूर्णानि भवन्ति ? ६. नद्यः कथं प्रवहन्ति ? ७. कुत्र तृणान्युत्पद्यन्ते ? ८. के पल्लविता भवन्ति ? ९. छत्रं जनान् काभ्यां रक्षति ? १०. छत्रस्य नामान्तरे के ?
ख) 'भू' (भव्) (to be) धातोः विधिलिङ् (Potential Mood)
प्र. पु. भवेत् भवेताम् भवेयुः
म. पु. भवेः भवेतम् भवेत
उ. पु. भवेयम् भवेव भवेम
ग) 'पत्, वप्, वह'-धातूनां विधिलिङ् रूपाणि वदत।
शब्दार्थकोशः
वर्षाकाल: m. rainy season
परम् in. after, afterwards
कथम् in. how
प्रति in. towards
आतप: m. heat, sun-shine
छत्रम् n. umbrella
सच्छन्नम् a. n. covered with
धारा f. shower
स्वीयानि a. n. one's own
कृषीवल: m. farmer
क्षेत्रम् n. field
कर्षन्ति P. plough
वपन्ति P. sow
कूप: m. well; सरः n. a tank
भञ्जयन्त्य: a. f. breaking
प्रवहन्ति P. (they) flow
पल्लविता: a.m. having young sprouts
आपणम् n. a shop
रक्षति P. protects
មេរៀនទី ២១
एकविंशः पाठः - द्वौ सखायौ
अतीव । प्रभूतम् । श्रेष्ठी। वित्तम् ।
पूर्वं चोलदेशे द्वौ सखायावास्ताम्। तयोरेको विद्याप्रियः, अन्यो धनप्रियः। तयोः पितरौ अतीव दरिद्रौ। अतस्तौ पित्रोराज्ञया विदेशं गतौ॥
विद्याप्रियस्तत्र विद्यालयं प्रविश्य विद्यामधीतवान्। अन्यः कस्यापि श्रेष्ठिन आपणे व्यापृतः प्रभूतं वित्तमर्जति स्म॥
दशभ्यो वर्षेभ्यः परं तौ स्वदेश प्रति प्रस्थितौ। वनमार्गेण गच्छतोस्तयोः धनप्रियस्य धनभाण्डं चोराः अपाहरन्। तेन स निर्धनो जातः॥
यदा तौ स्वदेशमागतौ तदा विद्याप्रियं कृतविद्यं वीक्ष्य तद्देशीयो राजा तं मत्रिपदे न्ययोजयत्। धनप्रियस्तु जीविकार्थं गत्यन्तरम् अपश्यन् तस्यैव मत्रिणः सेवकोऽभवत्। विद्याया माहात्म्यं पश्यत ! अत एव 'विद्याधनं सर्वधनात् प्रधानम्' इति लोका आहुः॥
क) प्रश्ना: -
१. कदा कुत्र द्वौ सखायावास्ताम् ? २. तौ कीदृशौ ? ३. कुतः तौ विदेश गतौ ? ४. विद्याप्रियस्तत्र किं कृतवान् ?
५. अन्यः किमकरोत् ? ६. कदा तौ स्वदेश प्रति प्रस्थितौ ? ७. तयोः कस्य किं चोराः अपाहरन् ? ८. तेन स कीदृशो जातः ?
९. कः तं मत्रिपदे न्ययोजयत् ? १०. धनप्रियः किमकरोत् ? ११. कस्मात् त्वं विद्याभ्यासं करोषि ?
ख) 'रभ्' धातोः (to begin) (आत्मनेपदी) 'लड्' रूपाणि -
प्र. पु. अरभत अरभेताम् अरभन्त
म. पु. अरभथाः अरभेथाम् अरभध्वम्
उ. पु. अरभे अरभावहि अरभामहि
ग) 'प्रविश्य, वीक्ष्य'-इमे ल्यवन्ते अव्यये॥
घ) अर्जति स्म- अत्र व्याकरणविशेषः कः ?
ङ) 'लड्' रूपैः वाक्यानि पूरयत -
१. अद्य मम स्वसा पतिगृहात् (आगच्छ्)। २. अहं ह्यो गृहात् पुस्तकम् (आनय्)।
३. ह्यः सूर्यो न (प्रकाश्)। ४. अस्माकं परीक्षा ह्यः (आरभ्)॥
च) 'एक, द्वि, त्रि, चतुर्' एतेषां रूपैः वाक्यानि पूरयत-
१. वने व्याघ्रः प्रतिवसति। २. गुच्छे पुष्पाणि वर्तन्ते।
३. बालकौ पथि चोरम् अपश्यताम्।
४. दशरथस्य भार्यासु पुत्रा: अजायन्त ॥
छ) संख्याशब्दस्य रूपाणि 5 to 19
५ = पञ्च। ६ = षट्। ७ = सप्त। ८ = अष्ट-अष्टौ। ९ = नव। १० = दश। ११ = एकादश। १२ = द्वादश। १३ = त्रयोदश।
१४ = चतुर्दश। १६ = षोडश । १७ = सप्तदश। १५ = पञ्चदश। १८ = अष्टादश। १९ = नवदश or एकोनविंशतिः।
शब्दार्थकोशः
सखायौ m. two friends
अतीव in. very much
प्रभूतम् in. much
श्रेष्ठी m. merchant
वित्तम् n. wealth
विदेश: m. foreign land
अर्जति स्म P. earned
परम् in. after
अपाहरन् P. took away
निर्धन: a. m. poor
तद्देशीय: a. m. native of that place
न्ययोजयत् P. appointed
जीविकार्थम् in. for livelihood
आहुः P. (they) say
गत्यन्तरम् n. other means
सेवक: m. servant
अभवत् P. (he) became
មេរៀនទី ២២
द्वाविंशः पाठः - शुकः

किमिति। प्रायेण। अतीव। तस्मात्।
अयं शुकः पञ्जरे बद्धस्तिष्ठति। पञ्जरं लोहस्य शलाकाभि: निर्मितम्। किमिति शुकाः पञ्जरे बध्यन्ते ? शुका: खलु शिक्ष्यमाणाः स्फुटं भाषन्ते। अतः शुकान् गृहीत्वा जना: पञ्जरे स्थापयन्ति शिक्षयन्ति च॥
शुकानां रूपमपि रुचिरम्। तेषां पक्षौ हरितौ। चञ्चुश्च लोहिता। केचन शुकाः चित्रवर्णाः सन्ति। तेऽतीव मनोहराः॥
शुका: प्रायेण उष्णदेशेषु जायन्ते। वृक्षाणां कोटरेषु पाषाणानां छिद्रेषु वा ते निवसन्ति। पक्कानि फलानि शालिं मरिचं च ते भक्षयन्ति। लवणं शुकानां विषम्। तस्मात् लवणेन मिश्रितं भक्ष्यं मा यच्छ शुकेभ्यः॥
क) प्रश्ना: -
१. कः कुत्र बद्धः तिष्ठति ? २. पञ्जरं कथं निर्मितम् ? ३. शुकानां रूपं कीदृशम् ? ४. तेषां पक्षौ कीदृशौ ? ५. चश्चु: कीदृशी ?
६. अतीव मनोहराः शुका: के ? ७. शुकाः प्रायेण कुत्र जायन्ते ? ८. कुत्र ते निवसन्ति ? ९. किं ते भक्षयन्ति ?
१०. किं शुकानां विषम् ?
ख) पञ्चन्, षष्, सप्तन्, अष्टन्, नवन्, दशन्-एतेषां संख्याशब्दानां रूपैः वाक्यानि पूरयत -
१. इह बालकाः बालिकाश्च आगच्छन्ति। २. श्लोकानाम् अर्थं वर्णयत।
३. भृत्या: दिनैः तत् कर्म कुर्वन्ति। ४. अस्यां वीथ्यां गृहाणि सन्ति।
५. प्रभु: भृत्येभ्यो वेतनम् अयच्छत्। ६. पाण्डो: पुत्राः अजायन्त॥
ग) पठत -
ते + अतीव = तेऽतीव। भूयः + अपि = भूयोऽपि। नद्यः + अपि = नद्योऽपि। सखायौ + आस्ताम् = सखायावास्ताम् ॥
घ) 'रमणीय' शब्दस्य रूपैः वाक्यानि पूरयत -
१. अयं अश्वः । ३. एतत् पुष्पम्। ५. एतानि फलानि।
२. एषा लता। ४. इमे पात्रे। ६. शुकाः खगाः॥
ङ) Note that Adjectives must agree with their nouns in gender, number and case e. g. पाठालयो निर्मितः; पाठशाला निर्मिता; पञ्जरं निर्मितम्।
च) 'रभ्' धातोः (to begin) (आत्मनेपदी) 'लोट्' रूपाणि -
प्र. पु. रभताम् रभेताम् रभन्ताम्
म. पु. रभस्व रभेथाम् रभध्वम्
उ. पु. रभै रभावहै रभामहै
छ) संख्याशब्दस्य रूपाणि 5 to 19
५ = पञ्च। ६ = षट्। ७ = सप्त। ८ = अष्ट-अष्टौ। ९ = नव। १० = दश। ११ = एकादश। १२ = द्वादश। १३ = त्रयोदश।
१४ = चतुर्दश। १६ = षोडश । १७ = सप्तदश। १५ = पञ्चदश। १८ = अष्टादश। १९ = नवदश or एकोनविंशतिः।
शब्दार्थकोशः
शुक: m. parrot
किमिति in. why?
प्रायेण in. mostly
अतीव in. very
तस्मात् in. therefore
पञ्जरम् n. cage
लोह: m. iron or any metal
शिक्ष्यमाणा: a. m. being taught
स्फुटम् in. distinctly
भाषन्ते A. speak
रुचिरम् a. n. charming
हरित: a. m. green
चश्चु: f. a beak
लोहिता a. f. red
मनोहरा: a.m. lovel
जायन्ते A. are born
कोटरम् n. hollow of tree
पाषाण: m. stone
छिद्रम् n. hole
पक्कानि a. n. ripe
शालि: f. paddy
मरिचम् n. pepper (here it means chilli)
मिश्रित a. mixed with
लवणम् n. salt
मा in. यच्छ P. don't give
មេរៀនទី ២៣
त्रयोविंशः पाठः - वृद्धस्य कौशलम्

कश्चित्। केचित्। कानिचित्। कतिचित्।
एकदा कश्चित् वृद्धो ग्रामान्तरं गच्छन् पथि श्रान्तः अभवत्। अतः स विश्रमाय पार्श्वस्थितस्य चूततरोः मूलमगच्छत्॥
तस्मिन् वृक्षे पचेलिमानि फलान्यवर्तन्त। वृद्धस्य तेषु स्पृहा जाता। परं स वृक्षमारुह्य तानि ग्रहीतुं नाशक्रोत्॥
दिष्ट्या तस्मिंस्तरौ केचित् वानराः फलानि खादन्तः स्थिताः। तानवलोक्य वृद्धः प्रहर्षं गतः। स किमकरोत् ? स कतिचित् उपलानादाय वानरान्
लक्ष्यीकृत्य प्राक्षिपत्। वानराः कुपिताः कानिचित् फलान्यवचित्य वृद्धं प्रति प्राक्षिपन्। वृद्धः सहर्षं
तान्यादाय स्वाभीष्टदेश गतः॥ अहो ! वृद्धस्य कौशलम्॥
Describe in your mother-tongue the skill of the old man.
क) प्रश्ना: -
१. कः पथि श्रान्तः अभवत् ? २. स किमकरोत् ? ३. कुत्र कीदृशानि फलान्यवर्तन्त ? ४. वृद्धस्य का जाता ?
५. स किं कर्तुं नाशक्नोत् ? ६. कुत्र के फलानि खादन्तः स्थिताः ? ७. कथं वृद्धः प्रहर्षं गतः ? ८. स किमकरोत् ?
९. वानराः किमकुर्वन् ? १०. वृद्धः तान्यादाय कुत्र गतः ?
ख) किञ्चित्' इत्यस्य रूपैः वाक्यानि पूरयत -
१. एकस्मिन् नगरे वणिक् प्रत्यवसत्। २. अत्र बालकाः बालिकाश्च पठन्ति।
३. इह कुमार्य: उद्यानं गच्छन्ति। ४. अहं सहपाठिना सह तस्य गृहमगच्छम्।
५. अहं बालकान् बालिकाश्च विद्यालये अपश्यम्॥
ग) पठत -
१. फलानि + अवचित्य = फलान्यवचित्य। २. तानि + आदाय = तान्यादाय।
घ) अस्मिन् पाठे ल्यवन्तानि अव्ययानि कानि ?
ङ) उचितैः क्रियापदैः वाक्यानि पूरयत -
१. वयं नौकया नदीं । ४. ह्यः अस्माकम् अनध्यायः ।
२. त्वम् असत्यं मा । ५. स पेटिकां कुञ्चिकया ।
३. अहं सायं वीणाम् । ६. श्वः परश्वो वा पिता मद्रपुरात् ॥
च) 'लोट्' (आज्ञा) रूपैः वाक्यानि पूरयत -
१. वयं श्लोकान् (पठ्)। २. राम, त्वम् (उप + विश्)।
३. युवां पाठालयं (गम् = गच्छ्)। ४. यूयम् असत्यं मा (वद्)।
५. छात्रा:, यूयम् (उत् + तिष्ठ)। ६. ते यथाकालं कर्माणि (कृ= कर्) ॥
शब्दार्थकोशः
कौशलम् n. skill
एकदा in. once
ग्रामान्तरम् n. another village
पथि m. on the way
पार्श्वस्थित: a. m. standing by side of
चूततरु: m. mango tree
पचेलिमम् a. n. ripe
अवर्तन्त A. there were
स्पृहा f. desire
परम् in. but
वृद्ध: m. old man
अशक्रोत् P. was able
दिष्ट्या in. luckily
वानर: m. monkey
प्रहर्षं गत: a. m. became delighted
उपल: m. stone
लक्ष्यीकृत्य in. having aimed at
प्राक्षिपत् P. threw
अवचित्य in. having plucked
सहर्षम् in. delightfully
अहो in. how great or wonderful
មេរៀនទី ២៤
चतुर्विंशः पाठः - श्रीविनायकः

प्रतिदिनम्। प्रत्यहम्। अविघ्नम्। निर्विघ्नम्। यद्यपि .... तथापि।
अयं कः ? अयं श्रीविनायकः। अस्य पिता क: ? अस्य पिता श्रीपरमेश्वरः । अस्य माता का ? अस्य माता श्रीपार्वती। अस्य भ्राता श्रीसुब्रह्मण्यः॥
पश्य ! विनायकस्य शरीरं नरस्येव आननं गजस्येव च वर्तेते। अतोऽयं 'गजाननः' इति नाम भजते। यद्यप्यस्य आननं गजस्येव वर्तते तथाप्यस्य दन्त एक एव।
गजस्य तु द्वौ दन्तौ स्तः। गजस्येवास्य मुखे शुण्डा विद्यते॥
विनायको विघ्नानां राजा। अतो विद्यारम्भकाले बालास्तं नमन्ति। तथा नम्यमानः स विघ्वान् अपोहति। गोविन्दः प्रतिदिनं विनायकं पूजयति।
तेन स निर्विघ्नं सर्वाणि कार्याणि साधयति। त्वमपि प्रत्यहं विनायकं पूजय। तवापि सर्वस्मिन् कर्मण्यविघ्नं भविष्यति। अत एव सर्वेऽपि-
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥ -इति प्रार्थयन्ते॥
क) प्रश्ना: -
१. विनायकस्य शरीरम् आननं च कथं वर्तेते ? २. अतोऽयं कीदृशं नाम भजते ? ३. कस्य दन्त एक एव, कस्य द्वौ दन्तौ स्तः ?
४. कस्येवास्य मुखे शुण्डा वर्तते ? ५. अयं केषां राजा ? ६. विद्यारम्भकाले बाला: किं कुर्वन्ति ?
७. तथा नम्यमानः स किं करोति ? ८. गोविन्दः प्रतिदिनं किं करोति ? ९. तेन स किं साधयति ?
१०. विनायकस्य पूजने किं भविष्यति ? ११. प्रत्यहं जनाः कथ प्रार्थयन्ते ?
ख) उचितैः पदैः वाक्यानि पूरयत
१. शुका: पक्कानि फलानि शालिं भक्षयन्ति। २. गोपाल: सहपाठिभिः उद्यानमगच्छत्।
३. नरो नारी वा विद्यया न शोभते। ४. आतपः कठोरः, चन्द्रिका शीतला मनोहरा च।
५. राघवः अतीव बुद्धिमान् बालकः अलसः ॥
ग) एषां पदानाम् एकवचनं वदत।
केचित् वानराः फलानि खादन्तः स्थिताः ॥
घ) संख्याशब्दा: 20 to 30
२० = विंशतिः। २१ = एकविंशतिः। २२ = द्वाविंशतिः। २३ = त्रयोविंशतिः। २४ = चतुर्विशतिः। २५ = पञ्चविंशतिः ।
२६ = षद्विंशतिः। २७ = सप्तविंशतिः । २८ = अष्टाविंशतिः। २९ = नवविंशति: or एकोनत्रिंशत् । ३० = त्रिंशत्।
ङ) पदच्छेदं कुरुत (Split the words)
१. कर्मण्यविघ्नम् । २. अतोऽयम् । ३. तान्यादाय । ४. सर्वेऽपि ।
शब्दार्थकोशः
प्रतिदिनम्-प्रत्यहम् in. daily
अविघ्नम्-निर्विघ्नम् in. without obstacle
तथापि in. still
विघ्य: m. obstacle
यद्यपि in. though
परमेश्वरः m. the Supreme Lord
शुण्डा f. the trunk of an elephant
अपोहति P. removes
पूजयति P. worships
साधयति P. accomplishes
មេរៀនទី ២៥
पञ्चविंशः पाठः - सुबुद्धिः दुर्बुद्धिश्च
मित्रम्। कतिपयानि। अत्रान्तरे। अनादृत्य।
आस्तां कस्मिंश्चिदग्रहारे द्वौ सखायौ। तयोरेक: सुबुद्धिः, अन्यो दुर्बुद्धिश्वासीत्। तौ कदाचित् सायं किञ्चिदुद्यानमगच्छताम्। तत्र बालवृक्षेषु रुचिराणि फलान्यासन्। तानि दृष्टा दुर्बुद्धिरवदत्-'मित्र ! कतिपयानि फलानि गृहीत्वा, गृहं नयावः'-इति॥
तदा सुबुद्धिरकथयत् - 'सखे ! मैवं कुरु। उद्यानपाल आवां दण्डयेत्' - इति। तस्य वचनमनादृत्य दुर्बुद्धि: पञ्चषाणि फलान्यवचित्य सुबुद्धे: हस्तेऽर्पितवान्॥
अत्रान्तरे तस्योद्यानस्य पालकः समेत्य तावभर्त्सयत। भीतो दुर्बुद्धिरवदत् - 'आर्य न मया पातितान्येतानि फलानि। किन्तु अनेन मम सख्या पातितानि। नाहमपराधी' - इति। तच्छुत्वा उद्यानपालः सुबुद्धिमताडयत्॥
तस्मात् - 'दुर्जनैः सह मैत्री न कर्तव्या'॥
क) प्रश्ना: -
What is the Moral of this Lesson ?
१. द्वौ सखायौ कुत्र आस्ताम् ? २. तौ कीदृशौ ? ३. तौ कदाचित् कदा कुत्र अगच्छताम् ? ४. कुत्र केषु रुचिराणि फलान्यासन् ?
५. तानि दृष्ट्वा दुर्बुद्धि: किमवदत् ? ६. तदा सुबुद्धिः किमकथयत् ? ७. तस्य वचनमनादृत्य दुर्बुद्धि: किमकरोत् ?
८. अत्रान्तरे कः तावभर्त्सयत ? ९. भीतो दुर्बुद्धिः किमवदत् ? १०. तच्छुत्वा उद्यानपाल: किमकरोत् ?
११. कै: सह मैत्री न कर्तव्या ? कुतः ?
ख) 'आहत्य, इति, अतीव, एवम्' एतैः यथायोगं वाक्यानि पूरयत -
१. अद्य उपाध्यायो नागच्छति रामः अवदत्। २. अस्यां शाखायाम् अष्ट फलानि विद्यन्ते।
३. मे माता मामकथयत्। ४. इदं कुसुमम् मनोहरं वर्तते॥
ग) उचितैः क्रियारूपैः वाक्यानि पूरयत -
१. केचित् बाला ह्यः पाठं न (पठ्)।
२. अहं श्वः पाठालयं न (गम्)।
३. सन्तो बाला यथाकालं स्वीयानि कर्माणि (कृ)।
४. ह्यः सूर्यो मेघैः आवृतो न (प्रकाश्)।
घ) 'रभ्' धातोः (आत्मनेपदी) 'विधिलिङ्' रूपाणि -
प्र. पु. रभेत रभेयाताम् रभेरन्
म. पु. रभेथाः रभेयाथाम् रभेध्वम्
उ. पु. रभेय रभेवहि रभेमहि
ङ) पठत -
(1) च + आसीत् = चासीत्। (2) न + अदुम् = नादुम् ॥
च) संख्याशब्दाः -
४० = चत्वारिंशत्। ५० = पञ्चाशत् । ६० = षष्टिः। ७० = सप्ततिः। ८० = अशीतिः । ९० = नवतिः। १०० = शतम्।
१,००० = सहस्रम्। १०,००० = अयुतम्। १००,००० = लक्षम्। १,०००,००० = प्रयुतम्। १०,०००,००० = कोटिः॥
शब्दार्थकोशः
मित्रम् n. a friend
कतिपयानि a. n. a few
अत्रान्तरे in. meanwhile
अनादृत्य in. having disregarded
कदाचित् in. once
बालवृक्ष: m. young tree
उद्यानपाल: m. gardener
पञ्चषाणि a. n. five or six
आर्य ! m. sir
मैत्री f. friendship
មេរៀនទី ២៦
षड्विंशः पाठः - चैत्रो मैत्रश्च
तथापि। ततः प्रभृति। स्वयमेव। सद्य एव।
आचार्य रामतीर्थस्य चैत्रो मैत्रश्चेति द्वौ शिष्यौ आस्ताम्। तौ गुरोः गृहस्य समीपे द्वयोः कोष्ठयोः न्यवसताम्॥
एकदा गुरु: तयोः बुद्धिचातुर्यं परीक्षार्थं ताभ्यामेकैकं रूप्यकं दत्त्वा अकथयत् - 'इदमत्यल्पं धनम् । तथापि येन युवयोः कोष्ठौ पूर्येयातां तादृशं
किमपि वस्तु क्रीत्वा आनयतम्' - इति॥
चैत्र: सद्य एव कस्यापि कृषीवलस्य गृहं गत्वा तेन धनेन पलालं क्रीतवान्। ततः स स्वयमेव तदानीय तेन कोष्ठ पूरयित्वा गुरवे न्यवेदयत्-'आर्य !
पूरितोऽयं कोष्ठः'-इति। गुरुः सविषादं, त्वया न साधु कृतम् इत्यवदत्॥
मैत्रो विपणिं गत्वा दीपमेकम् आनयत्। स तं प्रज्वाल्य कोष्ठे निधाय गुरवे न्यवेदयत् -'आर्य ! पूरितोऽयं कोष्ठः'-इति। गुरुः सहर्षं शिरः कम्पयन्,
'साधु कृतम्' इत्यभ्यनन्दत्। ततः प्रभृति उपाध्यायस्य मैत्रे प्रीतिरवर्धत। पश्यत ! मैत्रस्य बुद्धिचातुर्यम्॥
क) प्रश्ना: -
१. चैत्रो मैत्रश्च कस्य शिष्यौ ? २. तौ कुत्र न्यवसताम् ? ३.गुरु: तयो: परीक्षार्थं किमकरोत् ? ४.चैत्रः कुत्र गत्वा किं क्रीतवान् ?
५. स किं कृत्वा गुरवे किं न्यवेदयत् ? ६. चैत्रस्य प्रवृत्तिं दृष्टा गुरो: किम् अभवत् ? ७. मैत्र: कुत्र गत्वा दीपमानयत् ?
८. स किं कृत्वा गुरवे किं न्यवेदयत् ? ९. गुरु: सहर्षं शिरः कम्पयन् किमवदत् ? १०. ततः प्रभृति गुरो: कस्मिन् प्रीतिरवर्धत ?
ख) आचार्यः ; गुरुः ; उपाध्याय: m. teacher (words of similar meaning.)
ग) समानशब्दा: - कीदृशः, तादृशः, ईदृशः, एतादृशः, मादशः, त्वादशः, अस्मादृशः, युष्मादृशः, भवादशः ॥
घ) 'कतिपय' शब्दस्य रूपैः वाक्यानि पूरयत -
Note :- 'कतिपय' शब्दस्य, 'सर्व' शब्दवत् रूपाणि।
१. अस्मिन् उद्याने- वृक्षाः फलैः पूर्णाः शोभन्ते। २. अहं गृहं गच्छन् तटाके - मण्डूकान् अपश्यम्।
३. अस्मिन् वृक्षे - फलानि पक्कानि वर्तन्ते। ४. - सहपाठिन: अस्मिन् भवने निवसन्ति।
५. अत्र - तरुषु पक्षिणो वासं कुर्वन्ति॥
ङ) गत्वा, क्रीत्वा, पूरयित्वा-इमानि 'त्तवा' प्रत्ययान्तानि अव्ययानि।
च) अस्मिन् पाठे ल्यवन्तानि अव्ययानि वदत।
छ) Split: 1. कस्यापि 2. पूरितोऽयम् 3. हस्तेऽर्पितवान्
शब्दार्थकोशः
तथापि in. even then
ततः प्रभृति in. since then
स्वयमेव in. oneself
सद्य एव in. immediately
न्यवसताम् P. (they two) dwelt
कोष्ठः m. room
पूर्येयाताम् P. (they two) will be filled
तादशम् a. n. such like
क्रीत्वा in. having bought
पलाल: m. n. straw
निवेद in. having informed
सविषादम् in. sadly
कम्पयन् a.m. shaking
अवर्धत A. increased
अभ्यनन्दत् P. praised, approved
पश्यत P. look at
មេរៀនទី ២៧
सप्तविंशः पाठः - कुक्कुटः
उच्चैः । तारम् । प्रातस्तराम् । पूर्वम् ।
चित्रेऽस्मिन् एक: कुक्कुटः द्वे कुक्कुट्यौ केचन शाबकाश्च सन्ति। कुक्कुटस्य शिरसि ताम्रा चूडा वर्तते। तस्य वर्णश्चित्रो रम्यश्च। कुक्कुट्या वर्णस्तु
धूसरः। तस्याः शिरसि ताम्रा चूडा न विद्यते। ते शाबकाः सर्वदैव मात्रा सह पर्यटन्ति॥
कुक्कुटा: प्राधान्येन धान्यकणान् भक्षयन्ति। ते पादाभ्याम् अवकरान् विकिरन्तो भक्ष्यम् अन्विष्यन्ति, चञ्च्वा चोद्धरन्ति॥
कुक्कुटाः प्रत्यहं प्रातस्तरां प्रबुध्यन्ते। उच्चैः क्रोशन्तः ते प्रत्यूषे सर्वान् प्राणिनः प्रबोधयन्ति। 'उत्तिष्ठत जनाः, अलं निद्रया, प्रभाता रजनिः,
चक्षुरुन्मीलयत, कवाटमुद्धाटयत, सूर्योदयात् पूर्वं शय्यां त्यजत' इति वदन्त इव तारं रटन्ति॥
कुक्कुटानां शब्दं श्रुत्वा केचिज्जना: शयनादुत्थाय स्वीयेषु कर्मसु प्रवर्तन्ते। कुक्कुटा रात्रौ यामे यामे विरुवन्तो वेलां बोधयन्ति॥
क) प्रश्ना: -
१. चित्रेऽस्मिन् के के सन्ति ? २. कुक्कुटस्य शिरसि किं वर्तते ? ३. तस्य वर्णः कीदृशः ? ४. कुक्कुट्या वर्णः कीदृशः ?
५. तस्याः शिरसि का न विद्यते ? ६. ते शाबकाः कदा कया सह पर्यटन्ति ? ७. कुक्कुटाः प्राधान्येन कान् भक्षयन्ति ?
८. ते कथं भक्ष्यमन्विष्यन्ति कया चोद्धरन्ति ? ९. कुक्कुटाः प्रत्यहं कदा प्रबुध्यन्ते ? १०. किं कुर्वन्तः कान् प्रबोधयन्ति ?
११. किं वदन्त इव तारं रटन्ति ? १२. तेषां शब्दं श्रुत्वा के किं कुर्वन्ति ? १३. कुक्कुटाः किं कुर्वन्तो वेलां बोधयन्ति ?
ख) तथापि, प्रभृति, प्रायेण, अत्रान्तरे, स्वयमेव - एतैः यथायोगं वाक्यानि पूरयत -
१. सर्वे वृक्षा वसन्तमासे पुष्प्यन्ति। २. द्वौ बालौ कलहं कर्तुमारभेताम्, उपाध्याय आगच्छत्।
३. धेनवः केवलं तृणानि भक्षयन्ति, मधुरं क्षीरं यच्छन्ति च। ४. बाल्यात् अहं तव मित्रमस्मि।
५. अजाः प्रचाराय गच्छन्ति प्रत्यागच्छन्ति च॥
ग) 'उद्धर्, उन्मील्, उत्तिष्ट'- एतेषां लडि रूपाणि वदत॥
घ) अस्मिन् पाठे शतृप्रत्ययान्तान् वदत॥
ङ) संख्येयशब्दा :- (Ordinals) (प्रथमैकवचने रूपाणि) -
पुंसि- प्रथम: द्वितीयः तृतीयः चतुर्थः
स्त्रियाम्- प्रथमा द्वितीया तृतीया चतुर्थी
क्लीबे- प्रथमम् द्वितीयम् तृतीयम् चतुर्थम्
शब्दार्थकोशः
कुक्कुट: m. cock
उच्चैः, तारम् in. loudly
प्रातस्तराम् in. in the early morning
पूर्वम् in. before
कुक्कुटी f. hen
शाबक: m. young one
ताम्रा a. f. red
चूडा f. crest
रम्य: a. m. charming
धूसर: a. m. grey
पर्यटन्ति P. go about
अवकर: m. sweeping
अन्विष्यन्ति P. search for
उद्धरन्ति P. pick up
प्रबुध्यन्ते A. get up
प्रभात a. became clear
रजनि: f. night
प्रत्यूष: m. n. dawn
चक्षु: n. an eye
उन्मीलयत P. (you) open
कवाट: m. a door
याम: m. on eight part of a day
वेला f. time
बोधयन्ति P. inform
មេរៀនទី ២៨
अष्टाविंशः पाठः - मेषपालः
यूथम्। ऊर्णा। प्रातिवेशिकः। कितवः। मृषा। सम्प्रति। अन्येद्युः। पूर्वेद्युः। न केवलं-किन्तु।
इह पश्य ! मेषाणामजानां च यूथ गच्छति। यूथस्य पृष्ठतो गच्छन् पुरुषो मेषपालः। स मेषान् अजांश्च प्रचाराय वनं नयति। ते तत्र स्वेच्छया चरन्त
उदरं पूरयन्ति। न केवलं तृणान्येव किन्तु पर्णान्यपि ते भक्षयन्ति॥
अयं मेषपालोऽजानां क्षीरेण मेषाणामूर्णया च स्वकुटुम्बं भरति। अजानां क्षीरं महदौषधम्। मेषाणामूर्णाभिः शैत्यरक्षणाय कम्बलाः सम्मानार्हाणि रम्याणि वस्त्राणि च क्रियन्ते। अतोऽजाः मेषाश्चात्यन्तमुपयुक्ता: प्राणिनः॥
मेषपालोऽयं स्वस्य पुत्रं मेषैः सह वनं प्रेषयन्नासीत्। वनं गतः स चपलो बालक एकस्मिन् दिने विनोदार्थं 'व्याघ्रो-व्याघ्रः' इत्युच्चैराक्रोशत्। तदा प्रातिवेशिका जना: शस्त्राण्यादाय तस्य समीपमधावन्। तत्र व्याघ्रो नासीत्। तान् समागतान् वीक्ष्य स बालोऽहसत्। 'कितवोऽयं असत्यवादी बालकः' इति वदन्तस्ते रोषेण प्रत्यगच्छन्॥
अथान्येद्युः सत्यमेव व्याघ्रः समायातः। तं दृष्टा भीतो बालकः 'व्याघ्रो-व्याघ्रः' इत्याक्रोशत्। अयं पूर्वेद्युरिव मृषाऽऽक्रोशतीति मत्वा न कश्चित् तत्र गतः। व्याघ्रो बालकस्य कर्णौ नासिकां च अभक्षयत्। तया वेदनया पीड्यमान: स गृह एवास्ते। तस्मादयं मेषपाल: स्वयमेव सम्प्रति तान् वनं नयति॥
अनृतवादिन: सत्यमपि वचनं जनाः असत्यं मन्यन्ते। तस्मात् विनोदार्थमपि असत्यं न वक्तव्यम्। किन्तु सर्वदा सत्यमेव वक्तव्यम्। तथा च उक्तम्-
'सत्यं वद। धर्मं चर'-इति॥
क) प्रश्ना: -
१. इह केषां यूथं गच्छति ? २. को मेषपालः ? ३. स किं करोति ? ४. ते तत्र किं कुर्वन्ति ? ५. किं ते भक्षयन्ति ?
६. मेषपालः स्वकुटुम्बं कथं भरति ? ७. कस्मात् कारणात् अजा मेषाश्च अत्यन्तम् उपयुक्ता: प्राणिनः ?
८. मेषपालोऽयं कं कैः सह कुत्र प्रेषयन् आसीत् ? ९. वनं गतः स चपलः किमकरोत् ?
१०. तदा के किमादाय तस्य समीपमधावन् ? ११. तत्र समागतान् वीक्ष्य स बालः किमकरोत् ?
१२. किं वदन्तस्ते रोषेण प्रत्यगच्छन् ? १३. अन्येद्युः किं समभवत् ? १४. तदा बालकः किमकरोत् ? १५. कुतः स गृह एवास्ते ? १६. कुतः असत्यं कदाऽपि न वक्तव्यम् ? १७. अस्मिन् पाठे उपदेशाः के?
ख) मृषा, मिथ्या, नक्तम्, दिवा-एतान्युपयुज्य वाक्यानि रचयत॥
ग) संख्येयशब्दाः - पञ्चमः षष्ठः सप्तमः अष्टमः नवमः दशमः एकादशः द्वादश:॥
शब्दार्थकोशः
मेषपाल: m. shepherd
ऊर्णा f. wool
यूथम् n. herd
प्रातिवेशिक: m. neighbor
कितव: m. rogue
संप्रति in. now
अन्येद्युः in. next day
पूर्वेद्यु: in. previous day
मृषा in. falsehood
मेष: m. sheep
पृष्ठतः in. behind
प्रचार: m. pasturing
स्वेच्छा f. self will
चपल: a. m. fickle
आक्रोशत् P. cried out
अधावत् P. ran up
अहसत् P. laughed
वेदना f. pain
आस्ते A. stays
न केवलं किन्तु in. not only but also
មេរៀនទី ២៩
एकोनत्रिंशः पाठः - सत्यं जयति नानृतम्
ज्यायसी। कनीयसी। तदीयः । मदीयः। यदि ... तर्हि।
आसीत् पुरा सुवर्णपुरे धनवान् कश्चित् वैश्यः।
तस्य द्वे भार्ये आस्ताम्। तयोर्ज्यायसी वन्ध्या। कनीयसी तु पुत्रमेकं प्रासूत। ते द्वे अपि तं बालं स्नेहेनापोषयताम्॥
अथ कियताऽपि कालेन स वैश्यः कालधर्मं गतः। तस्य सर्वमपि धनं पुत्रिणीं कनीयसीं गच्छति। ज्यायसी तु तन्नासहत। अतः सा व्यचिन्तयत्-'यदि शिशुमिमं मदीयं कथयिष्यामि तर्हि महदिदं भर्तुर्धनं मामेष्यति'-इति। एवं विचिन्त्य सा बालकमादाय प्रतस्थे। कनीयसी तां वारयति स्म॥
ततः कलहायमाने ते न्यायाधिपमगच्छताम्। उभे अपि तस्याग्रे 'ममायं शिशुः, ममायं शिशुः' इत्यवदताम्। न्यायाधिपो विवादस्य रहस्यं ज्ञातुम् इच्छन् स्वभृत्यमकथयत्-'यद्युभयोरयं शिशुस्तर्हि तं छित्त्वा समं विभज्य उभाभ्यां यच्छ'-इति॥
तच्छ्रुत्वा ज्यायसी- 'साधु स्वामिन् साधु ! एवं क्रियताम्'-इत्युच्चैरवोचत्। कनीयसी तु, व्याकुला भूत्वा जगाद 'स्वामिन् ! तदीय एवायं बालो न
मदीयः । तस्मात् सजीवोऽयं तस्यै दीयताम्'-इति॥
न्यायाधिपस्तदाकर्ण्य स्मयमान: कनीयसीमेव शिशोर्जननीं निश्चित्य तस्यै शिशुमदापयत्। ज्यायसी तु जनैरुपहस्यमाना प्रत्यगच्छत्॥
अतः- 'सत्यं जयति नानृतम्' इति जना वदन्ति॥ This is the Second पाद of Sloka 24 on page 91.
क) प्रश्ना: -
१. कुत्र आसीत् धनवान् कश्चित् वैश्यः ? २. तस्य के आस्ताम् ? ३. तयो: का वन्ध्या ? ४. का पुत्रमेकं प्रासूत ?
५. ते तं बालं कथमपोषयताम् ? ६.क: कदा कालधर्मं गतः ? ७.तस्य सर्वमपि धनं कां गच्छति ? कुतः ? ८.का तन्नासहत ?
९. अतः सा किमचिन्तयत् ? १०. एवं विचिन्त्य सा किमकरोत् ? ११. तदा कनीयसी किं चकार ?
१२. ततः कलहायमाने ते किमकुरुताम् ? १३. उभे अपि कस्याग्रे किमवदताम् ? १४. न्यायाधिपः कं किमकथयत् ?
१५. तच्छ्रुत्वा ज्यायसी किमुच्चैरवोचत् ? १६. कनीयसी तु व्याकुला भूत्वा किं जगाद ? १७. न्यायाधिपः किमकरोत् ?
१८. का कैरुपहस्यमाना प्रत्यगच्छत् ? १९. अस्मिन् पाठे उपदेशः क: ?
ख) पठत- १. शिशोः + जननी = शिशोर्जननी। २. पूर्वेद्युः + इव = पूर्वेद्युरिव। ३. प्रीति: + अवर्धत = प्रीतिरवर्धत ॥
ग) न केवलं-किन्तु, यदि-तर्हि, यद्यपि-तथापि, एतैः यथायोगं वाक्यानि पूरयत -
१. स बुद्धिमान् उद्यमी च। २. राम: बुद्धिमान् अलसः।
३. सम्यक् पठिष्यसि श्रेयः प्राप्स्यसि ॥
घ) समानशद्वा: - (Similar words)
किमीयः, मदीयः, अस्मदीयः, त्वदीयः, युष्मदीयः, तदीयः, एतदीयः, इदमीयः, अदसीयः, भवदीयः ॥
शब्दार्थकोशः
सत्यम् n. honesty
जयति P. becomes victorious
ज्यायसी f. elder woman
कनीयसी f. younger one
तदीय: a.m. his, hers or its
मदीय: a. m. mine
यदि-तर्हि in. if so
वन्ध्या f. barren woman
प्रासूत A. gave birth to
अपोषयताम् P. they two nourished
कालधर्म: m. death
पुत्रिणी a. f. having a son
असहत A. endured
विचिन्त्य in. having thought
एष्यति P. will come
वारयति स्म P. obstructed
न्यायाधिप: m. judge
विवाद: m. dispute
जननी f. mother
ज्ञातुम् इच्छन् a. m. desiring to know
व्याकुला a. f. perplexed
सजीव: a. m. alive
स्मयमान: a. m. smiling
उपहस्यमाना a. f. being laughed at
अनृतम् n. falsehood
जगाद P. said
មេរៀនទី ៣០
त्रिंशः पाठः - उपदेशमाला
नभसो भूषणं चन्द्रो नारीणां भूषणं पतिः। पृथिव्या भूषणं राजा विद्या सर्वस्य भूषणम्॥ १
माता शत्रु: पिता वैरी येन बालो न पाठितः। न शोभते सभामध्ये हंसमध्ये बको यथा॥२
क) प्रश्ना: -
१. सर्वस्य भूषणं किम् ? २. क: सभामध्ये न शोभते ?
ख) निर्दिष्टैः पदैः वाक्यानि पूरयत -
१. सुशीला नारी गृहस्य (भूषण)।
२. सुपुत्र: कुलस्य (आभरण)।
३. सुशिष्यो गुरोः प्रीतेः (पात्र)॥
शब्दार्थकोशः
नारी f. a lady
पृथिवी f. the earth
पाठित: a. m. was taught
सभा f. assembly
हंसमध्यम् n. midst of swans
बक: m. a crane
पुस्तकस्था च या विद्या परहस्ते च यद्धनम्। कार्यकाले समायाते न सा विद्या न तद्धनम्॥ ३
सुखार्थी चेत् त्यजेद्विद्यां विद्यार्थी चेत् त्यजेत् सुखम्। सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम्॥ ४
क) प्रश्ना: -
३. का न विद्या, किं न धनम् ? ४. विद्यार्थी सुखार्थी च किं किं त्यजेताम् ?
ख) प्रयोग: त्रिविधः (Three kinds of voices)-
१. कर्तरि प्रयोगः Active Voice
i.(सकर्मकः) नम् + अ + ति = नमति, Example: पुत्रः पितरं नमति।
ii.(अकर्मकः) जि (जय्) + अ+ ति = जयति, Example: धर्मो जयति।
२. कर्मणि प्रयोगः Passive voice
नम् + य + ते = नम्यते, Example: पुत्रेण पिता नम्यते।
३. भावे प्रयोग: Impersonal Voice
जि + य + ते = जीयते, Example: धर्मेण जीयते।
Note: In कर्मणि प्रयोग the subject takes तृतीया and the object takes प्रथमा. Verb must agree to the object in number and person.
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्। क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम्॥ ५
आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया। पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च॥ ६
क) प्रश्ना: -
५. विद्यामर्थं च कथं साधयेत् ? ६. विद्यां शिष्यः कथमादत्ते ?
ख) कर्मणि प्रयोगं दर्शयत-
१. नरा देवं पूजयन्ति। २. अहं श्लोकान् पठामि।
शब्दार्थकोशः
३. समायात: a.m. came together
४. त्यजेत् P. should give up
५. क्षणशः in. moment by moment
कणशः in. bit by bit
अर्थ: m. wealth
साधयेत् P. should acquire
६. पाद: m. one fourth
आदत्ते A. receives
सब्रह्मचारी m. a classmate
मेधा f. intellect
कालक्रम: m. course of time
स्वगृहे पूज्यते मूर्ख: स्वग्रामे पूज्यते प्रभुः । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते॥ ७
जनिता चोपनेता च यश्च विद्यां प्रयच्छति। अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥ ८
गुरुपत्नी राजपत्नी ज्येष्ठपत्नी तथैव च। पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥ ९
क) प्रश्ना: -
७. के के कुत्र पूज्यन्ते ? ८. पञ्च पितरः के ? ९. पञ्च मातरः काः ?
शब्दार्थकोशः
७. स्वगृहम् n. one's own house
पूज्यते A. is worshipped
प्रभु: m. the rich
८. उपनेता m. a spiritual father
स्मृता: a.m. are regarded
९. ज्येष्ठपत्नी f. elder brother's wife
पत्नीमाता f. wife's mother
सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा। शान्ति: पत्नी क्षमा पुत्रः षडेते मम बान्धवाः ॥ १०
खल: करोति दुर्वृत्तं नूनं फलति साधुषु। दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ॥ ११
क) प्रश्ना: -
१०. षड् बान्धवाः के ? ११. खलस्य दुर्वृत्तं कुत्र फलति ? अत्र उदाहरणं किम् ?
ख) Split the words of the above slokas
ग) कर्मणि प्रयोगं दर्शयत -
१. गाव: क्षीरं यच्छति। २. पिता पुत्रं पश्यति। ३. कुम्भकारः कुम्भान् करोति। ४. मेषपालो मेषान् नयति।
५. बाला वृक्षम् आरोहन्ति। ६. शिष्या गुरून् वन्दन्ते। ७. वयं क्षीरं पिबामः। ८. त्वं पितरौ नमसि॥
शब्दार्थकोशः
१०. धर्म: m. virtue
शान्ति: f. peace
क्षमा f. patience
११. खल: m. wicked
दुर्वृत्तम् n. an evil deed
दशानन: m. the ten-faced (रावण)
अहरत् P. took away
बन्धनम् n. bondage
महोदधि: m. an ocean
सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः। सर्पो दशति कालेन दुर्जनस्तु पदे पदे॥ १२
यथा परोपकारेषु नित्यं जागर्ति सज्जनः। तथा परापकारेषु नित्यं जागर्ति दुर्जनः ॥ १३
त्यज दुर्जनसंसर्गं भज साधुसमागमम्। कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यताम्॥ १४
क) प्रश्ना: -
१२. सर्पदुर्जनयोर्मध्ये को वरम् ? १३. सज्जन: केषु जागर्ति ? दुर्जनः केषु जागर्ति ? १४. चतुर्दशः श्लोकः किमुपदिशति ?
शब्दार्थकोशः
१२. वरम् in. preferable to
दशति P. bites
१३. परोपकार: m. doing service to others
परापकार: m. doing harm to others
जागर्ति P. is awake
१४. संसर्ग: m. association
समागम: m. association
अहोरात्रम् n. day and night
अनित्यता f. instability
श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिषु। परोपकार: पुण्याय पापाय परपीडनम्॥ १५
रविश्चन्द्रो घना वृक्षाः नदी गावश्च सज्जनाः। एते परोपकाराय भुवि दैवेन निर्मिताः ॥ १६
क) प्रश्ना: -
१५. यत् ग्रन्थकोटिषु उक्त्तं तत् श्लोकार्धेन कथय। १६. के परोपकाराय भुवि दैवेन निर्मिताः ?
ख) कर्मणि प्रयोगं दर्शयत-
१. यो विद्यामर्थयते स सुखं त्यजेत्। २. यो विदुषः सेवते स विद्यां लभते। ३. या पतिमनुसरति तां मानयन्ति जनाः।
४. निन्दितं कर्म न सज्जनः करोति॥
ग) Split the words in the slokas.
शब्दार्थकोशः
१५. श्लोकार्ध: m. half of a verse
प्रवक्ष्यामि P. (I) shall tell
ग्रन्थकोटिषु f. in crores of works
१६.घना: m. clouds
गाव: f. cows
उद्यम: साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः। षडेते यत्र वर्तन्ते तत्र दैवं प्रसीदति॥ १७
गच्छन् पिपीलिको याति योजनानां शतान्यपि। अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति॥ १८
उद्योग: खलु कर्तव्यः फलं मार्जारवद्भवेत्। जन्मप्रभृति गौर्नास्ति पयः पिबति नित्यशः ॥ १९
क) प्रश्ना: -
१७. कुत्र दैवं प्रसीदति? १८. को योजनानां शतान्यपि याति? क: पदमेकं न गच्छति ? १९. कः पयः पिबति नित्यशः ?
शब्दार्थकोशः
१७. उद्यम: m. effort
साहसम् n. bravery
धैर्यम् n. courage
प्रसीदति P. is pleased
१८. पिपीलिक: m. an ant
योजनम् n. eight mile
वैनतेयः m. गुरुड:
पदम् n. step
१९. उद्योग: m. effort
मार्जारवत् in. मार्जारस्येव
जन्मप्रभृति in. from the time of birth
पय: n. milk
नित्यशः in. daily
एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम्। गतानुगतिको लोको न लोक: पारमार्थिकः ॥ २०
गवादीनां पयोऽन्येद्युः सद्यो वा जायते दधि। क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः ॥ २१
क) प्रश्ना: -
२०. लोक: कीदृशः ? २१. 'महतां विकृतिः कुतः' किम् अत्र उदाहरणम् ?
ख) वरम्, नूनम्, यथा-एतैः यथायोगं वाक्यानि पूरयत -
१. मूर्खापेक्षया मृतः पुत्रः । २. सुखार्थिनो विद्यां न लभन्ते।
३. पिता तथा गुरुरपि पूज्य: ।
शब्दार्थकोशः
२०. गर्हितम् a. n. a blamable act
गतानुगतिक: a.m. doing as others do; a blind follower
पारमार्थिक: a.m. caring for truth
२१.गवादि n. cows and others
दधि n. curd
अद्यापि in. even now
विकृतिः f. deviation from natural state
सम्पदो महतामेव महतामेव चापदः। वर्धते क्षीयते चन्द्रो न तु तारागण: क्वचित्॥ २२
कृषतो नास्ति दुर्भिक्षं जपतो नास्ति पातकम्। मौनिन: कलहो नास्ति न भयं चास्ति जाग्रतः॥ २३
क) प्रश्ना: -
२२. 'सम्पदो महतामेव महतामेव चापदः' कोऽत्र दृष्टान्तः ? २३. कस्य दुर्भिक्ष नास्ति ? कस्य पातकं नास्ति ?
कस्य कलहो नास्ति ? कस्य भयं नास्ति ?
ख) भावे प्रयोगं दर्शयत -
१. सत्यं जयति। २. ईश्वरः अस्ति। ३. भयं नास्ति। ४. चन्द्रो रात्रौ शोभते॥
शब्दार्थकोशः
२२. सम्पत् f. prosperity
आपत् f. Adversity
२३. दुर्भिक्षम् n. scarcity of provisions
पातकम् n. sin
मौनी a. m. the silent
जाग्रत् a. m. wakeful
धर्मो जयति नाधर्मः सत्यं जयति नानृतम्*। क्षमा जयति न क्रोधो देवो जयति नासुरः ॥ २४
आकाशात् पतितं तोयं यथा गच्छति सागरम्। सर्वदेवनमस्कार: केशवं प्रति गच्छति॥ २५
* Story on lesson 29
क) प्रश्ना: -
२४. के जयन्ति ? के न जयन्ति ? २५. सर्वदेवनमस्कारः कं प्रति गच्छति? कोऽत्र दृष्टान्तः ?
ख) विरुद्धपदानि - (Opposite words)
सुभिक्षम् x दुर्भिक्षम्। सत्यम् x असत्यम्। स्मरति x विस्मरति। देवः x असुरः। धर्मः x अधर्मः। निद्राति x जागर्ति।
वर्धते x क्षीयते। त्यजति x भजति। संपत् x विपत्। उपकारः x अपकारः।
ग) यथा-तथा, यत्र-तत्र, आभ्यां यथायोगं वाक्यानि पूरयत -
१. धूमः अग्निः। २. राजा प्रजा: ॥
शब्दार्थकोशः
२४. जयति P. is victorious
२५. सागर: m. ocean
तोयम् n. water
केशव: m. Lord Vishnu
C. Selected पर्याय Slokas from अमरकोश
१. श्रीगणेशः नामानि-८
विनायको विघ्नराज द्वैमातुर गणाधिपाः। अप्येकदन्त हेरम्ब लम्बोदर गजाननाः॥ १
२. श्रीसुब्रह्मण्यः नामानि-१६
कार्तिकेयो महासेनः शरजन्मा षडाननः। पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ १
बाहुलेयस्तारकजित् विशाखः शिखिवाहनः । षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः ॥ २
३. देवाः नामानि-२६
अमरा निर्जरा देवाः त्रिदशा विबुधाः सुराः। सुपर्वाणः सुमनसः त्रिदिवेशा दिवौकसः ॥ १
आदितेया दिविषदः लेखा अदितिनन्दनाः। आदित्या ऋभवोऽस्वप्राः अमर्त्या अमृतान्धसः ॥ २
बर्हिर्मुखाः क्रतुभुजः गीर्वाणा दानवारयः। वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ३
४. ब्रह्मा नामानि-१०
ब्रह्माऽत्मभूः सुरज्येष्ठः परमेष्ठी पितामहः । हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः॥ १
धाताऽब्जयोनिद्रुहिणः विरिञ्चिः कमलासनः। स्रष्टा प्रजापतिर्वेधाः विधाता विश्वसृड् विधिः॥ २
५. श्रीमहाविष्णुः नामानि - ३९
विष्णुर्नारायण: कृष्णः वैकुण्ठो विष्टरश्रवाः। दामोदरो हृषीकेशः केशवो माधवः स्वभू:॥ १
दैत्यारि: पुण्डरीकाक्षः गोविन्दो गरुडध्वजः। पीताम्बरोच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः॥ २
उपेन्द्र इन्द्रावरजः चक्रपाणिश्चतुर्भुजः। पद्मनाभो मधुरिपुः वासुदेवस्त्रिविक्रमः॥ ३
देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः। वनमाली बलिध्वंसी कंसारातिरधोक्षजः।
विश्वंभरः कैटभजित् विधुः श्रीवत्सलाञ्छनः ॥ ४
६. श्रीशिवः नामानि-४८
शंभुरीशः पशुपतिः शिवः शूली महेश्वरः। ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः॥ १
भूतेशः खण्डपरशुः गिरीशो गिरिशो मृडः। मृत्युञ्यः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ २
उग्र: कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्। वामदेवो महादेवः विरूपाक्षस्त्रिलोचनः॥ ३
कृशानुरेताः सर्वज्ञः धूर्जटिर्नीललोहितः। हरः स्मरहरो भर्गः त्र्यम्बकस्त्रिपुरान्तकः॥ ४
गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः। व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ॥ ५
७. श्रीबुद्धदेवः नामानि-१८
सर्वज्ञः सुगतो बुद्धः धर्मराजस्तथागतः। समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥ १
षडभिज्ञो दशबलोऽद्यवादी विनायकः। मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः॥ २
८. इन्द्रः नामानि-३६
इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः। वृद्धश्रवाः शुनासीरः पुरुहूतः पुरन्दरः ॥ १
जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः। सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा॥ २
वास्तोष्पतिः सुरपतिः बलारातिः शचीपतिः। जम्भभेदी हरिहयः स्वाराण्णमुचिसूदनः॥ ३
संक्रन्दनो दुश्व्यवनः तुराषाण्मेघवाहनः। आखण्डलः सहस्राक्षः ऋभुक्षाः सुरनायकः॥ ४
९. श्रीमहालक्ष्मीः नामानि-१४
लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया। इन्दिरा लोकमाता मा क्षीरोदतनया रमा॥ १
भार्गवी लोकजननी क्षीरसागरकन्यका॥ २
१०. श्रीपार्वती नामानि-१७
उमा कात्यायनी गौरी काली हैमवतीश्वरी। शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला॥ १
अपर्णा पार्वती दुर्गा मृडानी चण्डिकाऽम्बिका॥ २
११. कुबेर: नामानि-१७ (Lord of Wealth)
कुबेर: त्र्यम्बकसखः यक्षराट् गुह्यकेश्वरः। मनुष्यधर्मा धनदः राजराजो धनाधिषः ॥ १
किंनरेशो वैश्रवणः पौलस्त्यो गरवाहनः। (१)यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः ॥ २
१२. दिशां नामानि - ५ (Directions)
दिशस्तु ककुभ: काष्ठा आशाश्च हरितश्च ताः।
१३-१४ पूर्वादिदिशां-दिक्पालकानां च नामानि
पूर्वाsडग्नेयी दक्षिणा च नैतर्ती पश्चिमा तथा। वायवी चोत्तरैशानी दिशा अष्टाविमा: स्मृताः॥ १
इन्द्रो वह्निः पितृपतिः नैऋरतो वरुणो मरुत् । कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात्॥ २
Sanskrit English God
1. पूर्वा East इन्द्र
2. आग्रेयी South-east वह्निः
3. दक्षिणा South पितृपतिः
4. नैतर्ती South-west नैऋर्तः
5. पश्चिमा West वरुण:
6. वायवी North-west मरुत्
7. उत्तरा North कुबेर:
8. ईशानी North-East ईश:
(१) यक्ष, एकपिङ्ग, ऐलविल, श्रीद, पुण्यजनेश्वर इति पदच्छेदः॥
I. Tables to be studied by-heart.
1. 'इदम्' शब्दस्य नामपदैः सह प्रयोगः
पुंलिङ्ग. अय गजः। इमौ गजौ। इमे गजाः।
स्त्रीलिङ्ग. इयं बाला। इमे बाले। इमा बालाः।
नपुंसकलिङ्ग. इदं फलम्। इमे फले। इमानि फलानि।
2. 'तद्' शब्दस्य नामपदैः सह प्रयोग:
पुंलिङ्ग. सः अजः । तौ अजौ। ते अजाः।
स्त्रीलिङ्ग. सा लता। ते लते। ता लताः।
नपुंसकलिङ्ग. तत् पुष्पम्। ते पुष्पे। तानि पुष्पाणि।
3. 'एतद्' शब्दस्य नामपदैः सह प्रयोगः
पुंलिङ्ग. एषो हंस:। एतौ हंसौ। एते हंसाः।
स्त्रीलिङ्ग. एषा माला। एते माले। एता माला:।
नपुंसकलिङ्ग. एतत् पात्रम्। एते पात्रे। एतानि पात्राणि।
4. 'तद्-युष्मद्-अस्मद्' शब्दानां क्रियापदैः सह प्रयोगः
प्र. पु. सः पाठं पठति। तौ पाठं पठतः। ते पाठं पठन्ति।
म. पु. त्वं पाठं पठसि। युवां पाठं पठथः। यूयं पाठं पठथ।
उ. पु. अहं पाठं पठामि। आवां पाठं पठावः। वयं पाठं पठामः।
5. तदीय, मदीय, स्मयमान, वन्ध्य, गत, रम्य, निर्मित, रुचिर,भीत, तादृश, श्रान्त, कृतविद्य इत्यादयो विशेष्यनिघ्नाः विशेषणशब्दाः
i.e. following the gender, case, and number of the nouns: Example
पुंलिङ्ग. तदीयो बालः । तदीयौ बालौ। तदीया बालाः।
स्त्रीलिङ्ग. तदीया बाला। तदीये बाले। तदीया बालाः।
नपुंसकलिङ्ग. तदीयं मित्रम्। तदीये मित्रे। तदीयानि मित्राणि।
प्रश्ना :- Model Questions
6. लटि ; लडि ; लटि च धातूनां प्र. पु. एकवचने रूपाणि-
धातु लट् लङ् लृट्
1. भू (भव्) भवति अभवत् भविष्यति
2. पठ् पठति अपठत् पठिष्यति
3. गम् (गच्छ्) गच्छति अगच्छत् गमिष्यति
4. दृश् (पश्य्) पश्यति अपश्यत् द्रक्ष्यति
5. पा (पिब्) पिबति अपिबत् पास्यति
6. स्था (तिष्ठ्) तिष्ठति अतिष्ठत् स्थास्यति
7. कृ करोति अकरोत् करिष्यति
8. लभ् लभते अलभत लप्स्यते
9. वृत् वर्तते अवर्तत वर्तिष्यते
10. वन्द् वन्दते अवन्दत वन्दिष्यते
II-Present Participles. 'शतृ-शानच्, प्रत्ययौ'
i. 'शतृ' प्रत्ययाः (from परस्मैपद roots)
Present Tense. Pr. Participle
1.भवति भवन्
2.तिष्ठति तिष्ठन्
3.गच्छति गच्छन्
1.पश्यति पश्यन्
5.पिबति पिबन्
6.धावति धावन्
7.क्रीडति क्रीडन्
8.करोति कुर्वन्
ii. शानच् प्रत्ययाः (from आत्मनेपद roots)
Present Tense. Pr. Participle
1.लभते लभमानः
2.वन्दते वन्दमानः
3.रभते रभमाणः
4.वर्तते वर्तमानः
5.जायते जायमानः
6.विद्यते विद्यमानः
1. Correct the following (शोधयत) giving reasons:
(क) 1. अयं बाला। 2. तौ गजः। 3. एतत् लता। 4. ते पात्रम्। 5. इदम् अजः । 6. ताः गजाः। 7. इमे लताः।
8. इमे पात्राणि। 9. एतानि हंसाः।
(ख) 1. अहं पाठं पठसि। 2. त्वं पाठं पठथः। 3. युवां पाठं पठति। 4. आवां पाठं पठतः। 5. यूयं बालां पश्यन्ति।
6. तं हंसं पश्यति। 7. यूयं पुष्पं नयावः। 8. अहम् अर्थं वदति।
2.Give the opposite words (विपरीतपदानि वदत) -
1. गच्छति। 2. नयति। 3. आरोहति । 4. उच्चैः। 5. पूर्वम्। 6. सह।
3. Give the grammatical peculiarity
i. अहं कृष्णेन सह गृहं गत्वा लेखनीं आनयामि।
ii. भद्र ! त्वं प्रितिदिनं लेखन्या पुस्तकेन च विना पाठालयम् आगच्छसि।
iii. अलं तव कुतूहलेन।
4. What are the connected words of : -
1. यदा । 2. यद्यपि । 3. यत्र । 4. यदि ।
5. न केवलं । 6. यथा ।
(ग) Translate into English or mother tongue : -
i. (1) बालिका: पुष्पाय उद्यानम् अगच्छन्।
(2) धनिकानां गृहं याचका गच्छन्ति।
(3) गानेन सर्वेषां जनानां सन्तोषो भवति।
(4) वीणाया मधुरं स्वरं वयम् आकर्णयामः।
(5) कस्मात् नगरात् ते जना आगच्छन्ति।
(6) वृक्षस्य छायायां मुहूर्तं विश्रम्य अत्र आगच्छ॥
ii.1. श्रीरामो विश्वामित्रस्य यागम् अरक्षत्।
2. मुनिः रामेण लक्ष्मणेन च सह मिथिलाम् अगच्छत्।
3. मिथिलाधिपतेः सीता नाम एका कन्या आसीत्।
4. बहवो राजकुमाराः ताम् इच्छन्तो मिथिलापुरीम् आगताः।
5. तेषाम् एकोऽपि शिवचापं अनमयत्।
6. श्रीरामः शिवधनुः नमयित्वा सीतां पर्यणयत्॥
(घ) Translate into Sanskrit : -
i. 1. By (the) whip, 2. By order, 3. We follow, 4. With two shining wings, 5. From house, 6. From the bunch of flowers, 7. In this school, 8. Without hen, 9. Of (the) cow, 10. To calves, 11. They (two)
converse, 12. Yesterday, 13. The day after tomorrow, 14. Tomorrow, 15. During day time.
ii. a. Stars shine well at night. b. Father told his son a story. c. Why did you abuse him?
d. This is my book; that is yours.
iii. a. O boys ! Look here. There is a bee on this bunch of flowers. b. We (two) started to bazaar. c. Sri Rama, by command of his father, went to the forest with Lakshmana. d. Farmers plough fields in the rainy season.
शुभं भूयात्। समस्तसन्मङ्गळानि सन्तु॥
'जय विजयी भव'





























